भैरवीतन्त्र में तारा हृदय स्तोत्र मिलता है जिसे उग्रतारा हृदय स्तोत्र भी कहा जाता है। यहां भैरवी तंत्रोक्त उग्रतारा हृदय स्तोत्र संस्कृत में दिया गया है। दशमहाविद्या में से किसी भी महाविद्या की उपासना करनी हो योग्य गुरु का मार्गदर्शन अनिवार्य होता है।
यहां पढ़िये तारा हृदय स्तोत्र – Tara Hriday stotram
श्रीशिव उवाच
शृणु पार्वति भद्रं ते लोकानां हितकारकम् ।
कथ्यते सर्वदा गोप्यं ताराहृदयमुत्तमम् ॥१॥
श्रीपार्वत्युवाच
स्तोत्रं कथं समुत्पन्नं कृतं केन पुरा प्रभो ।
कथ्यतां सर्वसद्वृत्तं कृपां कृत्वा ममोपरि ॥२॥
श्रीशिव उवाच रणे देवासुरे पूर्वं कृतमिन्द्रेण सुप्रिये ।
दुष्टशत्रुविनाशार्थं बलवृद्धियशस्करम् ॥३॥
विनियोग : ॐ अस्य श्रीमदुग्रताराहृदयस्तोत्रमन्त्रस्य श्रीभैरवऋषिः । अनुष्टुप् छन्दः । श्रीमदुग्रतारादेवता । श्रीं बीजम् । हूं शक्तिः । नमः कीलकम् । सकलशत्रुविनाशार्थे पाठे विनियोगः ॥
॥ ऋष्यादिन्यासः ॥
श्रीभैरव ऋषये नमः शिरसि ।
अनुष्टुप्छन्दसे नमः मुखे ।
श्रीमदुग्रतारा देवतायै नमः हृदि ।
श्रीं बीजाय नमः गुह्ये ।
हूं शक्तये नमः नाभौ ।
नमः कीलकाय नमः पादयोः ।
सकल शत्रुविनाशार्थे पाठे विनियोगाय नमः अञ्जलौ ॥
॥ इति ऋष्यादिन्यासः ॥
॥ अथ करन्यासः ॥
ॐ श्रीं अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ हूं मध्यमाभ्यां नमः ।
ॐ त्रीं अनामिकाभ्यां नमः ।
ॐ ऐं कनिष्ठिकाभ्यां नमः ।
ॐ हंसः करतल करपृष्ठाभ्यां नमः ॥
॥ इति करन्यासः ॥
॥ अथ हृदयादिषडङ्गन्यासः ॥
ॐ श्रीं हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ॐ हूं शिखायै वषट् ।
ॐ त्रीं कवचाय हुम् ।
ॐ ऐं नेत्रत्रयाय वौषट् ।
ॐ हंसः अस्त्राय फट् ॥
॥ इति हृदयादिषडङ्गन्यासः ॥
॥ अथ ध्यानम् ॥
ॐ ध्यायेत्कोटिदिवाकरद्युतिनिभां बालेन्दुयुक्शेखरां
रक्ताङ्गीं रसनां सुरक्तवसनां पूर्णेन्दुबिम्बाननाम् ।
पाशं कर्त्रीमहाङ्कुशादि दधतीं दोर्भिश्चतुर्भिर्युतां
नानाभूषणभूषितां भगवतीं तारां जगत्तारिणीम् ॥४॥
॥ इति ध्यानम् ॥
एवं ध्यात्वा शुभां तारां ततस्यु हृदयं पठेत् ॥
तारिणी तत्त्वनिष्ठानां सर्वतत्त्वप्रकाशिका ।
रामाभिन्ना पराशक्तिः शत्रुनाशं करोतु मे ॥५॥
सर्वदा शत्रुसंरम्भे तारा मे कुरुतां जयम् ।
स्त्रीं त्रींस्वरूपिणी देवी त्रिषु लोकेषु विश्रुता ॥६॥
तव स्नेहान्मयाख्यातं न पैशुन्यं प्रकाश्यताम् ।
शृणुदेवि तव स्नेहात् तारानामानि तत्त्वतः ॥७॥
वर्णयिष्यामि गुप्तानि दुर्लभानि जगत्त्रये ।
तारिणी तरला तारा त्रिरूपा तरणिप्रभा ॥८॥
सत्त्वरूपा महासाध्वी सर्वसज्जनपालिका ।
रमणीया रजोरूपा जगत्सृष्टिकरी परा ॥९॥
तमोरूपा महामाया घोररावां भयानका ।
कालरूपा कालिकाख्या जगद्विध्वंसकारिका ॥१०॥
तत्त्वज्ञानपरानन्दा तत्त्वज्ञानप्रदाऽनघा ।
रक्ताङ्गी रक्तवस्त्रा च रक्तमालाप्रशोभिता ॥११॥
सिद्धिलक्ष्मीश्च ब्रह्माणी महाकाली महालया ।
नामान्येतानि ये मर्त्त्याः सर्वदैकाग्रमानसाः ॥१२॥
प्रपठन्ति प्रिये तेषां किङ्करत्वं करोम्यहम् ।
तारां तारपरां देवीं तारकेश्वरपूजिताम् ॥१३॥
तारिणीं भवपाथोधेरुग्रतारां भजाम्यहम् ।
श्रीं ह्रीं हूं त्रीं फट् मन्त्रेण जलं जप्त्वाऽभिषेचयेत् ॥१४॥
सर्वे रोगाः प्रणश्यन्ति सत्यं सत्यं वदाम्यहम् ।
त्रीं स्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्ततः ॥१५॥
तिलकं कुरुते प्राज्ञो लोको वश्यो भवेत्प्रिये ।
स्त्रीं ह्रीं त्रीं स्वाहा मन्त्रेण श्मशानं भस्ममन्त्रयेत् ॥१६॥
शत्रोर्गृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्भविष्यति ।
ह्रीं हूं श्रीं फडन्तमन्त्रैः पुष्पं संशोध्य सप्तधा ॥१७॥
उच्चाटनं नयत्याशु रिपूणां नैव संशयः ।
श्रीं त्रीं ह्रीं मन्त्रवर्येण अक्षताश्चाभिमन्त्रिताः ॥१८॥
तत्प्रतिक्षेपमात्रेण शीघ्रमायाति मानिनी।
(हंसः ॐ ह्रीं श्रीं हूं हंसः)
इति मन्त्रेण जप्तेन शोधितं कज्जलं प्रिये ॥१९॥
तस्यैव तिलकं कृत्वा जगन्मोहं समाचरेत् ।
तारायाः हृदयं देवि सर्वपापप्रणाशनम् ॥२०॥
वाजपेयादियज्ञानां कोटिकोटिगुणोत्तरम् ।
गङ्गादिसर्वतीर्थानां फलं कोटिगुणात्स्मृतम् ॥२१॥
महादुःखे महारोगे सङ्कटे प्राणसंशये ।
महाभये महाघोरे पठेत्स्तोत्रं महोत्तमम् ॥२२॥
सत्यं सत्यं मयोक्तं ते पार्वति प्राणवल्लभे।
गोपनीयं प्रयत्नेन न प्रकाश्यमिदं क्वचित् ॥२३॥
॥ इति श्रीभैरवीतन्त्रे शिवपार्वतीसम्वादे श्रीमदुग्रताराहृदयं सम्पूर्णम् ॥
जिनकी 10 भुजाये है और क्रमशः उन भुजाओ में खड्ग, चक्र, गदा, बाण, धनुष, परिघ, त्रिशूल, भुशुण्डी, मुण्ड और शङ्ख धारण किया है।
ऐसी तीन नेत्रों वाली त्रिनेत्रा सभी अङ्गो में आभूषणों से विभूषित नीलमणि जैसी आभावाली दशमुखों वाली और दश पैरों वाली महाकाली माता; जिनकी स्तुति मधु कैटभ का वध करने के लिए विष्णु के सो जाने पर साक्षात् ब्रह्मदेव (ब्रह्माजी) ने की थी; का मैं ध्यान करता (या करती) हूँ।
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।