दशमहाविद्या में से एक षोडशी जिनका एक अन्य नाम श्री त्रिपुर सुंदरी भी है के अनेक स्तोत्र हैं जो यहां संस्कृत में दिया गया है। त्रिपुरसुंदरी स्तोत्र (shodashi stotram), त्रिपुरसुन्दर्याद्वादशश्लोकीस्तुतिः, त्रिपुरसुन्दरीवेदसारस्तवः, त्रिपुरसुन्दरीचक्रराज स्तोत्रं, त्रिपुरसुन्दरी पञ्चरत्न स्तोत्रं और त्रिपुरसुन्दरी अपराध क्षमापण स्तोत्रं यहां दिया गया है।
षोडशी महाविद्या : पढ़िये त्रिपुरसुंदरी स्तोत्र संस्कृत में – shodashi stotram
श्वेतपद्मासनारूढां शुद्धस्फटिकसन्निभाम् ।
वन्दे वाग्देवतां ध्यात्वा देवीं त्रिपुरसुन्दरीम् ॥१॥
शैलाधिराजतनयां शङ्करप्रियवल्लभाम् ।
तरुणेन्दुनिभां वन्दे देवीं त्रिपुरसुन्दरीम् ॥२॥
सर्वभूतमनोरम्यां सर्वभूतेषु संस्थिताम् ।
सर्वसम्पत्करीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥३॥
पद्मालयां पद्महस्तां पद्मसम्भवसेविताम् ।
पद्मरागनिभां वन्दे देवी त्रिपुरसुन्दरीम् ॥४॥
पञ्चबाणधनुर्बाणपाशाङ्कुशधरां शुभाम् ।
पञ्चब्रह्ममयीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥५॥
षट्पुण्डरीकनिलयां षडाननसुतामिमाम् ।
षट्कोणान्तःस्थितां वन्दे देवीं त्रिपुरसुन्दरीम् ॥६॥
हरार्धभागनिलयामम्बामद्रिसुतां मृडाम् ।
हरिप्रियानुजां वन्दे देवीं त्रिपुरसुन्दरीम् ॥७॥
अष्टैश्वर्यप्रदामम्बामष्टदिक्पालसेविताम् ।
अष्टमूर्तिमयीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥८॥
नवमाणिक्यमकुटां नवनाथसुपूजिताम् ।
नवयौवनशोभाढ्यां वन्दे त्रिपुरसुन्दरीम् ॥९॥
काञ्चीवासमनोरम्यां काञ्चीदामविभूषिताम् ।
काञ्चीपुरीश्वरीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥१०॥
॥ इति श्रीत्रिपुरसुन्दरीस्तोत्रं सम्पूर्णम् ॥
॥ अथ त्रिपुरसुन्दर्याद्वादशश्लोकीस्तुतिः ॥
गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् ।
देवीं मन्त्रमयीं नौमि मातृकापीठरूपिणीम् ॥१॥
प्रणमामि महादेवीं मातृकां परमेश्वरीम् ।
कालहृल्लोहलोल्लोहकलानाशनकारिणीम् ॥२॥
यदक्षरैकमात्रेऽपि संसिद्धे स्पर्द्धते नरः ।
रविताक्ष्येन्दुकन्दर्पैः शङ्करानलविष्णुभिः ॥३॥
यदक्षरशशिज्योत्स्नामण्डितं भुवनत्रयम् ।
वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम् ॥४॥
यदक्षरमहासूत्रप्रोतमेतज्जगत्त्रयम् ।
ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम् ॥५॥
यदेकादशमाधारं बीजं कोणत्रयोद्भवम् ।
ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते ॥६॥
अकचादिटतोन्नद्धपयशाक्षरवर्गिणीम् ।
ज्येष्ठाङ्गबाहुहृत्कण्ठकटिपादनिवासिनीम् ॥७॥
नौमीकाराक्षरोद्धारां सारात्सारां परात्पराम् ।
प्रणमामि महादेवीं परमानन्दरूपिणीम् ॥८॥
अथापि यस्या जानन्ति न मनागपि देवताः ।
केयं कस्मात्क्व केनेति सरूपारूपभावनाम् ॥९॥
वन्दे तामहमक्षय्यां क्षकाराक्षररूपिणीम् ।
देवीं कुलकलोल्लोलप्रोल्लसन्तीं शिवां पराम् ॥१०॥
वर्गानुक्रमयोगेन यस्याख्योमाष्टकं स्थितम् ।
वन्दे तामष्टवर्गोत्थमहासिद्ध्यादिकेश्वरीम् ॥११॥
कामपूर्णजकाराख्यसुपीठान्तर्न्निवासिनीम् ।
चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम् ॥१२॥
इति द्वादशभी श्लोकैः स्तवनं सर्वसिद्धिकृत् ।
देव्यास्त्वखण्डरूपायाः स्तवनं तव तद्यतः ॥१३॥
॥ इति त्रिपुरसुन्दर्याद्वादशश्लोकीस्तुतिः सम्पूर्णं ॥
॥ अथ श्री त्रिपुरसुन्दरीवेदसारस्तवः ॥
कस्तूरीपङ्कभास्वद्गलचलदमलस्थूलमुक्तावलीका
ज्योत्स्नाशुद्धावदाता शशिशिशुमुकुटालङ्कृता ब्रह्मपत्नी ।
साहित्याम्भोजभृङ्गी कविकुलविनुता सात्त्विकीं वाग्विभूतिं
देयान्मे शुभवस्त्रा करचलवलया वल्लकीं वादयन्ती ॥१॥
एकान्ते योगिवृन्दैः प्रशमितकरणैः क्षुत्पिपासाविमुक्तैः
सानन्दं ध्यानयोगाद्विसगुणसद्दशी दृश्यते चित्तमध्ये ।
या देवी हंसरूपा भवभयहरणं साधकानां विधत्ते
सा नित्यं नादरूपा त्रिभुवनजननी मोदमाविष्करोतु ॥२॥
ईक्षित्री सृष्टिकाले त्रिभुवनमथ या तत्क्षणेऽनुप्रविश्य
स्थेमानं प्रापयन्ती निजगुणविभवैः सर्वथा व्याप्य विश्वम् ।
संहर्त्री सर्वभासां विलयनसमये स्वात्मनि स्वप्रकाशा
सा देवी कर्मबन्धं मम भवकरणं नाश्यत्वादिशक्तिः ॥३॥
लक्ष्या या चक्रराजे नवपुरलसिते योगिनीवृन्दगुप्ते
सौवर्णे शैलशृङ्गे सुरगणरचिते तत्त्वसोपानयुक्ते ।
मन्त्रिण्या मेचकाङ्ग्या कुचभरनतया कोलमुख्या च सार्धं
साम्राज्ञी सा मदीया मदगजगमना दीर्घमायुस्तनोतु ॥४॥
ह्रीङ्काराम्भोजभृङ्गी हयमुखविनुता हानिवृद्ध्यादिहीना
हंसोऽहंमन्त्रराज्ञी हरिहयवरदा हादिमन्त्रार्थरूपा ।
हस्ते चिन्मुद्रिकाढ्या हतबहुदनुजा हस्तिकृत्तिप्रिया मे
हार्दं शोकातिरेकं शमयतु ललिताघीश्वरी पाशहस्ता ॥५॥
हस्ते पङ्केरुहाभे सरससरसिजं बिभ्रती लोकमाता
क्षीरोदन्वत्सुकन्या करिवरविनुता नित्यपुष्टाक्ष गेहा ।
पद्माक्षी हेमवर्णा मुररिपुदयिता शेवधिः सम्पदां या
सा मे दारिद्र्यदोषं दमयतु करुणादृष्टिपातैरजस्रम् ॥६॥
सच्चिद्ब्रह्मस्वरूपां सकलगुणयुतां निर्गुणां निर्विकारां
रागद्वेषादिहन्त्रीं रविशशिनयनां राज्यदानप्रवीणाम् ।
चत्वारिंशत्त्रिकोणे चतुरधिकसमे चक्रराजे लसन्तीं
कामाक्षीं कामितानां वितरणचतुरां चेतसा भावयामि ॥७॥
कन्दर्पे शान्तदर्पे त्रिनयननयनज्योतिषा देववृन्दैः
साशङ्कं साश्रुपातं सविनयकरुणं याचिता कामपत्न्या ।
या देवी दृष्टिपातैः पुनरपि मदनं जीवयामास सद्यः
सा नित्यं रोगशान्त्यै प्रभवतु ललिताधीश्वरी चित्प्रकाशा ॥८॥
हव्यैः कव्यैश्च सर्वैः श्रुतिचयविहितैः कर्मभिः कर्मशीला
ध्यानाद्यैरष्टभिश्च प्रशमितकलुषा योगिनः पर्णभक्षाः ।
यामेवानेकरूपां प्रतिदिनमवनौ संश्रयन्ते विधिज्ञाः
सा मे मोहान्धकारं बहुभवजनितं नाशयत्वादिमाता ॥९॥
लक्ष्या मूलत्रिकोणे गुरुवरकरुणालेशतः कामपीठे
यस्याः विश्वं समस्तं बहुतरविततं जायते कुण्डलिन्याः ।
यस्याः शक्तिप्ररोहादविरलममृतं विन्दते योगिवृन्दं
तां वन्दे नादरूपां प्रणवपदमयीं प्राणिनां प्राणदात्रीम् ॥१०॥
ह्रीङ्काराम्भोधिलक्ष्मीं हिमगिरितनयामीश्वरीमीश्वराणां
ह्रींमन्त्राराध्यदेवीं श्रुतिशतशिखरैर्मृग्यमाणां मृगाक्षीम् ।
ह्रींमन्त्रान्तैस्त्रिकूटैः स्थिरतरमतिभिर्धार्यमाणां ज्वलन्तीं
ह्रीं ह्रीं ह्रीमित्यजस्रं हृदयसरसिजे भावयेऽहं भवानीम् ॥११॥
सर्वेषां ध्यानमात्रात्सवितुरुदरगा चोदयन्ती मनीषां
सावित्री तत्पदार्था शशियुतमकुटा पञ्चशीर्षा त्रिनेत्रा
हस्ताग्रैः शङ्खचक्राद्यखिलजनपरित्राणदक्षायुधानां
बिभ्राणा वृन्दमम्बा विशदयतु मतिं मामकीनां महेशी ॥१२॥
कर्त्री लोकस्य लीलाविलसितविधिना कारयित्री क्रियाणां
भर्त्री स्वानुप्रवेशाद्वियदनिलमुखैः पञ्चभूतैः स्वसृष्टैः ।
हर्त्री स्वेनैव धाम्ना पुनरपि विलये कालरूपं दधाना
हन्यादामूलमस्मत्कलुषभरमुमा भुक्तिमुक्तिप्रदात्री ॥१३॥
लक्ष्या या पुण्यजालैर्गुरुवरचरणाम्भोजसेवाविशेषाद्-
दृश्या स्वान्ते सुधीभिर्दरदलितमहापद्मकोशेन तुल्ये ।
लक्षं जस्वापि यस्या मनुवरमणिमासिद्धिमन्तो महान्तः
सा नित्यं मामकीने हृदयसरसिजे वासमङ्गीकरोतु ॥१४॥
ह्रींश्रीर्मैंमन्त्ररूपा हरिहरविनुताऽगस्त्यपत्नीप्रदिष्टा
हादिः काद्यर्णतत्त्वा सुरपतिवरदा कामराजप्रदिष्टा ।
दुष्टानां दानवानां मदभरहरणा दुःखहन्त्री बुधानां
साम्राज्ञी चक्रराज्ञी प्रदिशतु कुशलं मह्यमोङ्काररूपा ॥१५॥
श्रींमन्त्रार्थस्वरूपा श्रितजनदुरितध्वान्तहन्त्री शरण्या
श्रौतस्मार्तक्रियाणामविकलफलदा भालनेत्रस्य दाराः ।
श्रीचक्रान्तर्निषण्णा गुहवरजननी दुष्टहन्त्री वरेण्या
श्रीमत्सिंहासनेशी प्रदिशतु विपुलां कीर्तिमानन्दरूपा ॥१६॥
श्रीचक्रवरसाम्राज्ञी श्रीमत्त्रिपुरसुन्दरी ।
श्रीगुहान्वयसौवर्णदीपिका दिशतु श्रियम् ॥१७॥
॥ इति श्रीमत्त्रिपुरसुन्दरीवेदसारस्तवः सम्पूर्णः ॥
॥ अथ श्रीत्रिपुरसुन्दरीचक्रराज स्तोत्रं ॥
॥ ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं ॥
कर्तुं देवि ! जगद्-विलास-विधिना सृष्टेन ते मायया
सर्वानन्द-मयेन मध्य-विलसच्छ्री-विनदुनाऽलङ्कृतम् ।
श्रीमद्-सद्-गुरु-पूज्य-पाद-करुणा-संवेद्य-तत्त्वात्मकं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥१॥
एकस्मिन्नणिमादिभिर्विलसितं भूमी-गृहे सिद्धिभिः
वाह्याद्याभिरुपाश्रितं च दशभिर्मुद्राभिरुद्भासितम् ।
चक्रेश्या प्रकतेड्यया त्रिपुरया त्रैलोक्य-सम्मोहनं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥२॥
ईड्याभिर्नव-विद्रुम-च्छवि-समाभिख्याभिरङ्गी-कृतं
कामाकर्षिणी कादिभिः स्वर-दले गुप्ताभिधाभिः सदा ।
सर्वाशा-परि-पूरके परि-लसद्-देव्या पुरेश्या युतं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥३॥
लब्ध-प्रोज्ज्वल-यौवनाभिरभितोऽनङ्ग-प्रसूनादिभिः
सेव्यं गुप्त-तराभिरष्ट-कमले सङ्क्षोभकाख्ये सदा ।
चक्रेश्या पुर-सुन्दरीति जगति प्रख्यातयासङ्गतं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥४॥
ह्रीङ्काराङ्कित-मन्त्र-राज-निलयं श्रीसर्व-सङ्क्षोभिणी
मुख्याभिश्चल-कुन्तलाभिरुषितं मन्वस्र-चक्रे शुभे ।
यत्र श्री-पुर-वासिनी विजयते श्री-सर्व-सौभाग्यदे
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥५॥
हस्ते पाश-गदादि-शस्त्र-निचयं दीप्तं वहन्तीभिः
उत्तीर्णाख्याभिरुपास्य पाति शुभदे सर्वार्थ-सिद्धि-प्रदे ।
चक्रे बाह्य-दशारके विलसितं देव्या पूर-श्र्याख्यया
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥६॥
सर्वज्ञादिभिरिनदु-कान्ति-धवला कालाभिरारक्षिते
चक्रेऽन्तर्दश-कोणकेऽति-विमले नाम्ना च रक्षा-करे ।
यत्र श्रीत्रिपुर-मालिनी विजयते नित्यं निगर्भा स्तुता
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥७॥
कर्तुं मूकमनर्गल-स्रवदित-द्राक्षादि-वाग्-वैभवं
दक्षाभिर्वशिनी-मुखाभिरभितो वाग्-देवताभिर्युताम् ।
अष्टारे पुर-सिद्धया विलसितं रोग-प्रणाशे शुभे
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥८॥
हन्तुं दानव-सङ्घमाहव भुवि स्वेच्छा समाकल्पितैः
शस्त्रैरस्त्र-चयैश्च चाप-निवहैरत्युग्र-तेजो-भरैः ।
आर्त-त्राण-परायणैररि-कुल-प्रध्वंसिभिः संवृतं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥९॥
लक्ष्मी-वाग-गजादिभिः कर-लसत्-पाशासि-घण्टादिभिः
कामेश्यादिभिरावृतं शुभ~ण्करं श्री-सर्व-सिद्धि-प्रदम् ।
चक्रेशी च पुराम्बिका विजयते यत्र त्रिकोणे मुदा
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥१०॥
ह्रीङ्कारं परमं जपद्भिरनिशं मित्रेश-नाथादिभिः
दिव्यौघैर्मनुजौघ-सिद्ध-निवहैः सारूप्य-मुक्तिं गतैः ।
नाना-मन्त्र-रहस्य-विद्भिरखिलैरन्वासितं योगिभिः
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥११॥
सर्वोत्कृष्ट-वपुर्धराभिरभितो देवी समाभिर्जगत्
संरक्षार्थमुपागताऽभिरसकृन्नित्याभिधाभिर्मुदा ।
कामेश्यादिभिराज्ञयैव ललिता-देव्याः समुद्भासितं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥१२॥
कर्तुं श्रीललिताङ्ग-रक्षण-विधिं लावण्य-पूर्णां तनूं
आस्थायास्त्र-वरोल्लसत्-कर-पयोजाताभिरध्यासितम् ।
देवीभिर्हृदयादिभिश्च परितो विन्दुं सदाऽऽनन्ददं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥१३॥
लक्ष्मीशादि-पदैर्युतेन महता मञ्चेन संशोभितं
षट्-त्रिंशद्भिरनर्घ-रत्न-खचितैः सोपानकैर्भूषितम् ।
चिन्ता-रत्न-विनिर्मितेन महता सिंहासनेनोज्ज्वलं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥१४॥
ह्रीङ्कारैक-महा-मनुं प्रजपता कामेश्वरेणोषितं
तस्याङ्के च निषण्णया त्रि-जगतां मात्रा चिदाकिरया ।
कामेश्या करुणा-रसैक-निधिना कल्याण-दात्र्या युतं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥१५॥
श्रीमत्-पञ्च-दशाक्षरैक-निलयं श्रीषोडशी-मन्दिरं
श्रीनाथादिभिरर्चितं च बहुधा देवैः समाराधितम् ।
श्रीकामेश-रहस्सखी-निलयनं श्रीमद्-गुहाराधितं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥१६॥
॥ अथ श्रीत्रिपुरसुन्दरी पञ्चरत्न स्तोत्रं ॥
नीलालकां शशिमुखीं नवपल्लवोष्ठीं
चाम्पेयपुष्पसुषमोज्ज्वलदिव्यनासाम् ।
पद्मेक्षणां मुकुरसुन्दरगण्डभागां
त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥१॥
श्रीकुन्दकुड्मलशिलोज्ज्वलदन्तवृन्दां
मन्दस्मितद्युतितिराहितचारुवाणीम् ।
नानामणिस्थगितहारसुचारुकण्ठीं
त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥२॥
पीनस्तनीं घनभुजां विपुलाब्जहस्तां
भृङ्गावलीजितसुशोभितरोमराजिम् ।
मत्तेभकुम्भकुचभारसुनम्रमद्ध्यां
त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥३॥
रम्भोज्ज्वलोरुयुगलां मृगराजपत्रा-
मिन्द्रादिदेवमकुटोज्ज्वलपादपद्माम् ।
हेमाम्बरां करधृताञ्चितखड्गवल्लीं
त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥४॥
मत्तेभवक्त्रजननीं मृडदेहयुक्तां
शैलाग्रमद्ध्यनिलयां वरसुन्दराङ्गीम् ।
कोटीश्वराख्यहृदिसंस्थितपादपद्मां
त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥५॥
बाले त्वत्पादयुगलं ध्यात्वा संप्रति निर्मितम् ।
नवीनं पञ्चरत्नं च धार्यतां चरणद्वये ॥६॥
॥ इति श्रीत्रिपुरसुन्दरीपञ्चरत्नस्तोत्रं सम्पूर्णम् ॥
॥ अथ श्रीत्रिपुरसुन्दरी अपराध क्षमापण स्तोत्रं ॥
अथ स्तोत्रं प्रवक्ष्यामि त्रिपुरार्णव ईरितम् ।
किं किं द्वन्द्वं दनुजदलिनि क्षीयते न श्रुतायां
का का सिद्धिः कुलकमलिनि प्राप्यते नार्चितायाम् ।
का का कीर्तिः सुरवरनुते व्याप्यते न स्तुतायां
कं कं भोगं त्वयि न चिनुते चित्तमालम्बितायाम् ॥१॥
सकुसं सकुसं रम्भ स्वारिता मोक्षविभ्रमे ।
चिच्चन्द्रमण्डलान्तःस्थे नमस्ते हरवल्लभे ॥२॥
जगदुद्धारणोद्योगयोगभोगवियोगिनि ।
स्थितिभावस्थिते देवि नमः स्थाणुप्रियेऽम्बिके ॥३॥
भावाभावपृथग्भावानुभावे वेदकर्मणि ।
चैतन्यपञ्चके देवि नमस्तुभ्यं हराङ्गने ॥४॥
सृष्टिस्थित्युपसंहारप्रत्युर्जितपदद्वये ।
चिद्विश्रान्तिमहासत्तामात्रे मातर्नमोऽस्तु ते ॥५॥
वह्न्यर्कशीतकिरणब्रह्मचक्रान्तरोदिते ।
चतुष्पीठेश्वरि शिवे नमस्ते त्रिपुरेश्वरि ॥६॥
चराचरमिदं विश्वं प्रकाशयसि तेजसा ।
मातृकारूपमास्थाय तस्यै मातर्नमोऽस्तु ते ॥७॥
स्मृता भवभयं हंसि पूजिताऽसि शुभङ्करि ।
स्तुता त्वं वाच्छितं वस्तु ददासि करुणावरे ॥८॥
भक्तस्य नित्यपूजायां रतस्य मम साम्प्रतम् ।
वाग्भवादिमहासिद्धिं देहि त्रिपुरसुन्दरि ॥९॥
परमानन्दसन्दोहप्रमोदभरनिर्भरे ।
दुःखत्रयपरिम्लानवदनं पाहि मां शिवे ॥१०॥
शब्दब्रह्ममयि यच्च देवि त्रिपुरसुन्दरि ।
यथाशक्ति जपं पूजां गृहाण मदनुग्रहात् ॥११॥
अज्ञानादल्पबुद्धित्वादालस्याद् दुष्टभावतः ।
ममापराधं कार्पण्यं क्षमस्व परदेवते ॥१२॥
अज्ञानामसमर्थानामस्वस्थाननिवासिनाम् ।
अशुद्धं बलमस्माकं शिशूनां हरवल्लभे ॥१३॥
कृपामयि कृपां भद्रे सकृन्मयि निवेशय ।
तावदहं कृतार्थोऽस्मि न ते किञ्चन हीयते ॥१४॥
यन्मया क्रियते कर्म जाग्रत्स्वप्नसुषुप्तिषु ।
तत् सर्वं तावकी पूजा भूयाद् भूत्यै रमे शिवे ॥१५॥
द्रव्यहीनं क्रियाहीनं विधिहीनञ्च यद् भवेत् ।
तत् सर्वं कृपया देवि क्षमस्व परदेवते ॥१६॥
यन्मयोक्तं महाज्ञानं तन्महत् स्वल्पमेव वा ।
तावत् सर्वं जगद्धात्रि क्षन्तव्यमयमञ्जलिः ॥१७॥
॥ इति श्रीत्रिपुरसुन्दरी अपराधक्षमापणस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।