यहां विनियोग न्यास और ध्यान सहित षोडशी महाविद्या अर्थात त्रिपुर सुंदरी हृदय स्तोत्र संस्कृत में दिया गया है।
यहां पढ़ें त्रिपुरसुन्दरी हृदय स्तोत्र संस्कृत में – tripura sundari hriday stotram
कैलासे करुणाक्रान्ता परोपकृतिमानसा ।
पप्रच्छ करुणासिन्धुं सुप्रसन्नं महेश्वरम् ॥१॥
श्रीपार्वत्युवाच
आगामिनि कलौ ब्रह्मन् धर्मकर्मविवर्जिताः ।
भविष्यन्ति जनास्तेषां कथं श्रेयो भविष्यति ॥२॥
श्रीशिव उवाच
शृणु देवि प्रवक्ष्यामि तव स्नेहान्महेश्वरि ।
दुर्लभं त्रिषु लोकेषु सुन्दरीहृदयस्तवम् ॥३॥
ये नरा दुःखसन्तप्ता दारिद्र्यहतमानसाः ।
अस्यैव पाठमात्रेण तेषां श्रेयो भविष्यति ॥४॥
विनियोग : ॐ अस्य श्रीमहाषोडशीहृदयस्तोत्रमन्त्रस्य आनन्दभैरव ऋषिः । देवी गायत्री छन्दः ।श्रीमहात्रिपुरसुन्दरी देवता। ऐं बीजम् । सौः शक्तिः । क्लीं कीलकम् । धर्मार्थकाममोक्षार्थे जपे (पाठे) विनियोगः ॥
॥ अथ ऋष्यादिन्यासः ॥
ॐ आनन्दभैरवऋषये नमः शिरसि ॥
देवी गायत्री छन्दसे नमः मुखे ॥
श्रीमहात्रिपुरसुन्दरीदेवतायै नमः हृदये ॥
ऐं बीजाय नमः नाभौ ॥
सौः शक्तये नमः स्वाधिष्ठाने ॥
क्लीं कीलकाय नमः मूलाधारे ॥
विनियोगाय नमः पादयोः ॥
॥ इति ऋष्यादिन्यासः ॥
॥ अथ करन्यासः ॥
ऐं ह्रीं क्लीं अङ्गुष्ठाभ्यां नमः ॥
क्लीं श्रीं सौः ऐं तर्जनीभ्यां नमः ॥
सौः ॐ ह्रीं श्रीं मध्यमाभ्यां नमः ॥
ऐं कएलह्रीं हसकलह्रीं अनामिकाभ्यां नमः ॥
क्लीं सकल कनिष्ठिकाभ्यां नमः ॥
सौः सौः ऐं क्लीं ह्रीं श्रीं करतलकरपृष्ठाभ्यां नमः ॥
॥ इतिकरन्यास ॥
॥ अथ हृदयादिषडङ्गन्यासः ॥
ऐं ह्रीं क्लीं हदयाय नमः ॥
क्लीं श्रीं सौः ऐं शिरसे स्वाहा ॥
सौः ॐ ह्रीं श्रीं शिखायै वषट् ॥
ऐं कएलह्रीं हसकलह्रीं कवचाय हुम् ॥
क्लीं सकल नेत्रत्रयाय वौषट् ॥
सौः सौः ऐं क्लीं ह्रीं श्रीं अस्त्राय फट् ॥
॥ इति हृदयादिषडङ्गन्यासः ॥
॥ अथ ध्यानम् ॥
बालव्यक्तविभाकरामितनिभां भव्यप्रदां भारती-
मीषत्फुल्लमुखाम्बुजस्मितकरैराशाभवान्धापहाम् ।
पाशं साभयमङ्कुशं च वरदं सम्बिभ्रतीं भूतिदां
भ्राजन्तीं चतुरम्बुजाकृतकरैर्भक्त्या भजे षोडशीम् ॥५॥
सुन्दरी सकलकल्मषापहा कोटिकञ्जकमनीयकान्तिभृत् ।
कोटिकल्पकृतपुण्यकर्मणा पूजनीयपदपुण्यपुष्करा ॥६॥
शर्वरीशसमसुन्दरानना श्रीशशक्तिसुकृताश्रयाश्रिता ।
सज्जनानुशरणीयसत्पदा सङ्कटे सुरगणैः सुवन्दिता ॥७॥
या सुरासुररणे जवान्विता आजघान जगदम्बिकाऽजिता ।
सञ्जघानतां भजामि जननीं जगज्जनिं युद्धयुक्तदितिजान्सुदुर्जयान् ॥८॥
तां भजामि जगतां जनिं जयां युद्धयुक्तदितिजान्सुदुर्जयान्
योगिनां हृदयसङ्गतां शिवां योगयुक्तमनसां यतात्मनाम् ।
जाग्रतीं जगति यत्नतो द्विजा यां जपन्ति हृदि तां भजाम्यहम् ॥९॥
कल्पकास्तु कलयन्ति कालिकां यत्कला कलिजनोपकारिका ।
कौलिकालिकलितान्घ्रिपङ्कजां तां भजामि कलिकल्मषापहाम् ॥१०॥
बालार्कानन्तशोचिर्न्निजतनुकिरणैर्द्दीपयन्तीं दिगन्तान्
दीप्तैर्द्देदीप्तमानां दनुजदलवनानल्पदावानलाभाम् ।
दान्तोदन्तोग्रचितां दलितदितिसुतां दर्शनीयां दुरन्तां
देवीं दीनार्द्रचित्तां हृदि मुदितमनाः षोडशीं संस्मरामि ॥११॥
धीरान्धन्यान्धरित्रीधवविधृतशिरो धूतधूल्यब्जपादां
घृष्टान्धाराधराधो विनिधृतचपलाचारुचन्दप्रभाभाम् ।
धर्म्यान्धूतोपहारान्धरणिसुरधवोद्धारिणीं ध्येयरूपां
धीमद्धन्यातिधन्यान्धनदधनवृतां सुन्दरीं चिन्तयामि ॥१२॥
जयतु जयतु जल्पा योगिनी योगयुक्ता
जयतु जयतु सौम्या सुन्दरी सुन्दरास्या ।
जयतु जयतु पद्मा पद्मिनी केशवस्य
जयतु जयतु काली कालिनी कालकान्ता ॥१३॥
जयतु जयतु खर्वा षोडशी वेदहस्ता
जयतु जयतु धात्री धर्मिणी धातृशान्तिः ।
जयतु जयतु वाणी ब्रह्मणो ब्रह्मवन्द्या
जयतु जयतु दुर्गा दारिणी देवशत्रोः ॥१४॥
देवि त्वं सृष्टिकाले कमलभवभृता राजसी रक्तरूपा
रक्षाकाले त्वमम्बा हरिहृदयधृता सात्विकी श्वेतरूपा ।
भूरिक्रोधा भवान्ते भवभवनगता तामसी कृष्णरूपा
एताश्चान्यास्त्वमेव क्षितमनुजमला सुन्दरी केवलाद्या ॥१५॥
सुमलशमनमेतद्देवि गोप्यं गुणज्ञे
ग्रहणमननयोग्यं षोडशीयं खलघ्नम् ।
सुरतरुसमशीलं सम्प्रदं पाठकानां
प्रभवति हृदयाख्यं स्तोत्रमत्यन्तमान्यम् ॥१६॥
इदं त्रिपुरसुन्दर्याः षोडश्याः परमाद्भुतम् ।
यः शृणोति नरः स्तोत्रं स सदा सुखमश्नुते ॥१७॥
न शूद्राय प्रदातव्यं शठाय मलिनात्मने ।
देयं दान्ताय भक्ताय ब्राह्मणाय विशेषतः ॥१८॥
॥ इति श्रीषोडशी हृदयस्तोत्रं सम्पूर्णं ॥
॥ अथ श्रीमहात्रिपुरसुन्दरीहृदयम् ॥
वन्दे सिन्दूरवर्णाभं वामोरुन्यस्तवल्लभम् ।
इक्षुवारिधिमध्यस्थमिभराजमुखं महः ॥१॥
गम्भीरलहरीजालगण्डूषितदिगन्तरः ।
अव्यान्माममृताम्भोधिरनर्घमणिसंयुतः ॥२॥
मध्ये तस्य मनोहारि मधुपारवमेदुरम् ।
प्रसूनविगलन्माध्वीप्रवाहपरिपूरितम् ॥३॥
किन्नरीगानमेदस्वि क्रीडाकन्दरदन्तुरम् ।
काञ्चनद्रुमधूलीभिः कल्पितावालवद्द्रुमम् ॥४॥
मुग्धकोकिलनिक्काणमुखरीकृतदिङ्मुखम् ।
मन्दारतरुसन्तानमञ्जरीपुञ्जपिञ्जरम् ॥५॥
नासानाडिन्धमस्मेरनमेरुसुमसौरभम् ।
आवृन्तहसिताम्भोजदीव्यद्विभ्रमदीर्घिकम् ॥६॥
मन्दरक्तशुकीदष्टमातुलुङ्गफलान्वितम् ।
सविधस्यन्दमानाभ्रसरित्कल्लोलवेल्लितम् ॥७॥
प्रसूनपांसुसौरभ्यपश्यतोहरमारुतम् ।
वकुलप्रसवाकीर्णं वन्दे नन्दनकाननम् ॥८॥
तन्मध्ये नीपकान्तारं तरणिस्तम्भकारणम् ।
मधुपालिविमर्दालिकलक्वाणकरम्बितम् ॥९॥
कोमलश्वशनाधूतकोरकोद्गतधूलिभिः ।
सिन्दूरितनभोमार्गं चिन्तितं सिद्धवन्दिभिः ॥१०॥
मध्ये तस्य मरुन्मार्गलम्बिमाणिक्यतोरणम् ।
शाणोल्लिखितवैदूर्यक्लृप्तसालसमाकुलम् ॥११॥
माणिक्यस्तम्भपटलीमयूखव्याप्तदिक्तटम् ।
पञ्चविंशतिसालाढ्यां नमामि नगरोत्तमम् ॥१२॥
तत्र चिन्तामणिगृहं तडित्कोटिसमुज्ज्वलम् ।
नीलोत्पलसमाकीर्णनिर्यूहशतसङ्कुलम् ॥१३॥
सोमकान्तमणिक्लृप्तसोपानोद्भासिवेदिकम् ।
चन्द्रशालाचरत्केतुसमालीढनभोन्तरम् ॥१४॥
गारुत्मतमणीक्लृप्तमण्डपव्यूहमण्डितम् ।
नित्यसेवापरामर्त्यनिबिडद्वारशोभितम् ॥१५॥
अधिष्ठितं द्वारपालैरसितोमरपाणिभिः ।
नमामि नाकनारीणां सान्द्रसङ्गीतमेदुरम् ॥१६॥
तन्मध्ये तरुणार्काभं तप्तकाञ्चननिर्मितम् ।
शक्रादिमद्द्वारपालैस्सन्ततं परिवेष्टितम् ॥१७॥
चतुष्षष्टिमहाविद्याकलाभिरभिसंवृतम् ।
रक्षितं योगिनीवृन्दै रत्नसिंहासनं भजे ॥१८॥
मध्ये तस्य मरुत्सेव्यं चतुर्द्वारसमुज्ज्वलम् ।
चतुरस्रत्रिरेखाढ्यां चारुत्रिवलयान्वितम् ॥१९॥
कलादलसमायुक्तं कनदष्टदलान्वितम् ।
चतुर्दशारसहितं दशारद्वितयान्वितम् ॥२०॥
अष्टकोणयुतं दिव्यमग्निकोणविराजितम् ।
योगिभिः पूजितं योगियोगिनीगणसेवितम् ॥२१॥
सर्वदुःखप्रशमनं सर्वव्याधिविनाशनम् ।
विषज्वरहरं पुण्यं विविधापद्विदारणम् ॥२२॥
सर्वदारिद्र्यशमनं सर्वभूपालमोहनम् ।
आशाभिपूरकं दिव्यमर्चकानामहर्निशम् ॥२३॥
अष्टादशसुमर्माढ्यं चतुर्विंशतिसन्धिनम् ।
श्रीमद्विन्दुगृहोपेतं श्रीचक्रं प्रणमाम्यहम् ॥२४॥
तत्रैव बैन्दवस्थाने तरुणादित्यसन्निभम् ।
पाशाङ्कुशधनुर्बाणपरिष्कृतकराम्बुजम् ॥२५॥
पूर्णेन्दुबिम्बवदनं फुल्लपङ्कजलोचनम् ।
कुसुमायुधशृङ्गारकोदण्डकुटिलभ्रुवम् ॥२६॥
चारुचन्द्रकलोपेतं चन्दनागुरुरूषितम् ।
मन्दस्मितमधूकालिकिञ्जल्कितमुखाम्बुजम् ॥२७॥
पाटीरतिलकोद्भासिफालस्थलमनोहरम् ।
अनेककोटिकन्दर्पलावण्यमरुणाधरम् ॥२८॥
तपनीयांशुकधरं तारुण्यश्रीनिषेवितम् ।
कामेश्वरमहं वन्दे कामितार्थप्रदं नृणाम् ॥२९॥
तस्याङ्कमध्यमासीनां तप्तहाटकसन्निभाम् ।
माणिक्यमुकुटच्छायामण्डलारुणदिङ्मुखाम् ॥३०॥
कलवेणीकनत्फुल्लकह्लारकुसुमोज्ज्वलाम् ।
उडुराजकृतोत्तंसामुत्पलश्यामलालकाम् ॥३१॥
चतुर्थीचन्द्रसच्छात्रफालरेखापरिष्कृताम् ।
कस्तूरीतिलकारूढकमनीयललन्तिकाम् ॥३२॥
भ्रुलताश्रीपराभूतपुष्पायुधशरासनाम् ।
नालीकदलदायादनयनत्रयशोभिताम् ॥३३॥
करुणारसम्पूर्णकटाक्षहसितोज्ज्वलाम् ।
भव्यमुक्तामणिचारुनासामौक्तिकवेष्टिताम् ॥३४॥
कपोलयुगलीनृत्यकर्णताटङ्कशोभिताम् ।
माणिक्यवालीयुगलीमयूखारुणदिङ्मुखाम् ॥३५॥
परिपक्वसुबिम्बाभापाटलाधरपल्लवाम् ।
मञ्जुलाधरपर्वस्थमन्दस्मितमनोहराम् ॥३६॥
द्विखण्डद्विजराजाभगण्डद्वितयमण्डिताम् ।
दरफुल्ललसद्गण्डधवलापूरिताननाम् ॥३७॥
पचेलिमेन्दुसुषमापाटच्चरमुखप्रभाम् ।
कन्धराकान्तिहसितकम्बुबिम्बोकडम्बराम् ॥३८॥
कस्तूरीकर्दमाश्यामकन्धरामूलकन्दराम् ।
वामांसशिखरोपान्तव्यालम्बिघनवेणिकाम् ॥३९॥
मृणालकाण्डदायादमृदुबाहुचतुष्टयाम् ।
मणिकेयूरयुगलीमयूखारुणविग्रहाम् ॥४०॥
करमूललसद्रत्नकङ्कणक्वाणपेशलाम् ।
करकान्तिसमाधूतकल्पानोकहपल्लवाम् ॥४१॥
पद्मरागोर्मिकाश्रेणिभासुराङ्गुलिपालिकाम् ।
पुण्ड्रकोदण्डपुष्पास्त्रपाशाङ्कुशलसत्कराम् ॥४२॥
तप्तकाञ्चनकुम्भाभस्तनमण्डलमण्डिताम् ।
घनस्तनतटीक्लृप्तकाश्मीरक्षोदपाटलाम् ॥४३॥
कूलङ्कषकुचस्फारतारहारविराजिताम् ।
चारुकौसुम्भकूर्पासच्छन्नवक्षोजमण्डलाम् ॥४४॥
नवनीलघनश्यामरोमराजिविराजिताम् ।
लावण्यसागरावर्तनिभनाभिविभूषिताम् ॥ ४५॥
डिम्भमुष्टितलग्राह्यमध्ययष्टिमनोहराम् ।
नितम्बमण्डलाभोगनिक्वणन्मणिमेखलाम् ॥४६॥
सन्ध्यारुणक्षौमपटीसञ्छन्नजघनस्थलाम् ।
घनोरुकान्तिहसितकदलीकाण्डविभ्रमाम् ॥४७॥
जानुसम्पुटकद्वन्द्वजितमाणिक्यदर्पणाम् ।
जङ्घायुगलसौन्दर्यविजितानङ्गकाहलाम् ॥४८॥
प्रपदच्छायसन्तानजितप्राचीनकच्छपाम् ।
नीरजासनकोटीरनिघृष्टचरणाम्बुजाम् ॥४९॥
पादशोभापराभूतपाकारितरुपल्लवाम् ।
चरणाम्भोजशिञ्जनमणिमञ्जीरमञ्जुलाम् ॥५०॥
विबुधेन्द्रवधूत्सङ्गविन्यस्तपदपल्लवाम् ।
पार्श्वस्थभारतीलक्ष्मीपाणिचामरवीजिताम् ॥५१॥
पुरतो नाकनारीणां पश्यन्तीं नृत्तमद्भुतम् ।
भ्रूलताञ्चलसम्भूतपुष्पायुधपरम्पराम् ॥५२॥
प्रत्यग्रयौवनोन्मत्तपरिफुल्लविलोचनाम् ।
ताम्रोष्ठीं तरलापाङ्गीं सुनासां सुन्दरस्मिताम् ॥५३॥
चतुरर्थध्रुवोदारां चाम्पेयोद्गन्धिकुन्तलाम् ।
मधुस्नपितमृद्वीकमधुरालापपेशलाम् ॥५४॥
शिवां षोडशवार्षीकां शिवाङ्कतलवासिनीम् ।
चिन्मयीं हृदयम्भोजे चिन्तयेज्जापकोत्तमः ॥५५॥
॥ फलश्रुतिः ॥
इति त्रिपुरसुन्दर्या हृदयं सर्वकामदम् ।
सर्वदारिद्र्यशमनं सर्वसम्पत्प्रदं नृणाम् ॥५६॥
तापज्वरार्तिशमनं तरुणीजनमोहनम् ।
महाविषहरं पुण्यं माङ्गल्यकरमद्भुतम् ॥५७॥
अपमृत्युहरं दिव्यमायुष्यश्रीकरं परम् ।
अपवर्गैकनिलयमवनीपालवश्यदम् ॥५८॥
पठति ध्यानरत्नं यः प्रातस्सायमतन्द्रितः ।
न विषादैस्स च पुमान् प्राप्नोति भुवनत्रयम् ॥५९॥
॥ इति श्रीमहात्रिपुरसुन्दरीहृदयं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।