यदि आप माता काली की अराधना के लिये स्तुति ढूंढ रहे हैं तो यहां मिलेगा आपको अनेकों काली स्तोत्र एक साथ। बहुधा ऐसा होता है कि जो स्तोत्र आप ढूंढ रहे होते हैं उसके लिये आपको बहुत समय तक सर्च करते रहना पड़ता है। लेकिन यहां आपको बहुत देर तक ढूंढने की आवश्यकता नहीं होगी क्योंकि यहां एक साथ ही अनेकों काली स्तोत्र दिये गये हैं।
यहां पढ़ें काली स्तोत्र संस्कृत में – kali stotra
यहां सभी काली स्तोत्र संस्कृत में दिया गया है। यहां क्रमशः काली शांति स्तोत्र, कालिका स्तोत्र, मेना कृत काली स्तोत्र, काली ताण्डवस्तोत्र, आद्या स्तोत्र, काली स्तोत्र – रुद्रयामलोक्त, दक्षकृत काली स्तोत्र – कालिकापुराणोक्त, परशुराम कृत काली स्तोत्र – ब्रह्मवैवर्तपुराणोक्त और कामकला काली स्तोत्र दिये गये हैं।
॥ काल्याः शान्तिस्तोत्रं ॥
काली काली महाकालि कालिके पापहारिणि ।
धर्ममोक्षप्रदे देवि गुह्यकालि नमोऽस्तुते ॥१॥
सङ्ग्रामे विजयं देहि धनं देहि सदा गृहे ।
धर्मकामार्थसम्पत्तिं देहि कालि नमोऽस्तुते ॥२॥
उल्कामुखि ललज्जिह्वे घोररावे भगप्रिये ।
श्मशानवासिनि प्रेते शवमांसप्रियेऽनघे ॥३॥
अरण्य चारिणि शिवे कुलद्रव्यमयीश्वरि ।
प्रसन्नाभव देवेशि भक्तस्य मम कालिके ॥४॥
शुभानि सन्तु कौलानां नश्यन्तु द्वेषकारकाः ।
निन्दाकरा क्षयं पान्तुये च हास्य प्रकुर्वते ॥५॥
ये द्विषन्ति जुगुप्सन्ते ये निन्दन्ति हसन्ति ये ।
येऽसूयन्ते च शङ्कन्ते मिथ्येति प्रवदन्ति ये ॥६॥
ते डाकिनीमुखे यान्तु सदारसुतबान्धवाः ।
पिबत्वं शोणितं तस्य चामुण्डा मांसमत्तु च ॥७॥
आस्थीनिचर्वयन्त्वस्य योगिनी भैरवीगणाः ।
यानिन्दागमतन्त्रादौ या शक्तिषु कुलेषु या ॥८॥
कुलमार्गेषु या निन्दा सा निन्दा तव कालिके ।
त्वन्निन्दाकारिणां शास्त्री त्वमेव परमेश्वरि ॥९॥
न वेदं न तपो दानं नोपवासादिकं व्रतम् ।
चान्द्रायणादि कृच्छं च न किञ्चिन्मानयाम्यहम् ॥१०॥
किन्तु त्वच्चरणाम्भोज सेवां जाने शिवाज्ञया ।
त्वदर्चा कुर्वतो देवि निन्दापि सफला मम ॥११॥
राज्यं तस्य प्रतिष्ठा च लक्ष्मीस्तस्य सदा स्थिरा ।
तस्य प्रभुत्वं सामर्थ्यं यस्य त्वं मस्तकोपरि ॥१२॥
धन्योऽहं कृतकृत्योऽहं सफलं जीवतं मम ।
यस्य त्वच्चरणद्वन्दे मनो निविशते सदा ॥१३॥
दैत्याः विनाशमायान्तु क्षयं यान्तु च दानवाः ।
नश्यन्तु प्रेतकूष्माण्डा राक्षसा असुरास्तथा ॥१४॥
पिशाच भूत वेतालां क्षेत्रपाला विनायकाः ।
गुह्यकाः घोणकाश्चैव विलीयन्ता सहस्रधा ॥१५॥
भारुण्डा जम्भकाः स्कान्दाः प्रमथाः पितरस्तथा ।
योगिन्यो मातरश्चापि डाकिन्यः पूतनास्तथा ॥१६॥
भस्मीभवन्तु सपदि त्वत् प्रसादात् सुरेश्वरि ।
दिवाचरा रात्रिचरा ये च सन्ध्याचरा अपि ॥१७॥
शाखाचरा वनचराः कन्दराशैलचारिणः ।
द्वेष्टारो ये जलचरा गुहाबिलचरा अपि ॥१८॥
स्मरणादेव ते सर्वे खण्डखण्डा भवन्तु ते ।
सर्पानागा यातुधाना दस्युमायाविनस्तथा ॥१९॥
हिंसका विद्विषो निन्दाकरा ये कुलदूषकाः ।
मारणोच्चाटनोन्मूल द्वेष मोहन कारकाः ॥२०॥
कृत्याभिचारकर्तारः कौलविश्वासघातकाः ।
त्वत्प्रसादाज्जगद्धात्रि निधनं यान्तु तेऽखिलाः ॥२१॥
नवग्रहाः सतिथयो नक्षत्राणि च राशयः ।
सङ्क्रान्तयोऽब्दा मासाश्च ऋतवो द्वे तथायने ॥२२॥
कलाकाष्ठामुहुर्ताश्च पक्षाहोरात्रयस्तथा ।
मन्वतराणि कल्पाश्च युगानि युगसन्धयः ॥२३॥
देवलाकाः लोकपालाःपितरो वह्नयस्तथा ।
अध्वरा निधयो वेदाः पुराणागमसंहिता ॥२४॥
एते मया कार्तिता ये ये चान्ये नानुकीर्तिताः ।
आज्ञया गुह्यकाल्यास्ते मम कुर्वन्तु मङ्गलम् ॥२५॥
भवन्तु सर्वदा सौम्याः सर्वकालं सुखावहाः ।
आरोग्यं सर्वदा मेऽस्तु युद्धे चैवापराजयः ॥२६॥
दुःखहानिः सदैवास्तां विघ्ननाशः पदे पदे ।
अकालमृत्यु दारिद्र्यं बन्धनं नृपतेर्भयम् ॥२७॥
गुह्यकाल्याः प्रसादेन न कदापि भवेन्मम ।
सन्त्विन्द्रियाणि सुस्थानि शान्तिः कुशलमस्तु मे ॥२८॥
वाञ्छाप्तिर्मनसः सौख्यं कल्याणं सुप्रजास्तथा ।
बलं विक्तं यशः कान्तिवृद्धिर्विद्या महोदयः ॥२९॥
दीर्घायुरप्रधृष्यत्वं वीर्यं सामर्थ्यमेव च ।
विनाशो द्वेषकर्तृणां कौलिकानां महोन्नतिः ।
जायतां शान्तिपाठेन कुलवर्त्म धृतात्मनाम् ॥३०॥
॥ इति काल्याः शान्तिस्तोत्रं सम्पूर्णम् ॥
॥ कालिकास्तोत्रं ॥
दधन्नैरन्तर्यादपि मलिनचर्यां सपदि यत्
सपर्यां पश्यन्सन् विशतु सुरपुर्यां नरपशुः ।
भटान्वर्यान् वीर्यासमहरदसूर्यान् समिति या
जगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥१॥
लसन्नासामुक्ता निजचरणभक्तावनविधौ
समुद्युक्ता रक्ताम्बुरुहदृगलक्ताधरपुटा ।
अपि व्यक्ताऽव्यक्तायमनियमसक्ताशयशया
जगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥२॥
रणत्सन्मञ्जीरा खलदमनधीराऽतिरुचिर-
स्फुरद्विद्युच्चीरा सुजनझषनीरायिततनुः ।
विराजत्कोटीरा विमलतरहीरा भरणभृत्
जगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥३॥
वसाना कौशेयं कमलनयना चन्द्रवदना
दधाना कारुण्यं विपुलजघना कुन्दरदना ।
पुनाना पापाद्या सपदि विधुनाना भवभयं
जगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥४॥
रधूत्तंसप्रेक्षारणरणिकया मेरुशिखरात्
समागाद्या रागाज्झटिति यमुनागाधिपमसौ ।
नगादीशप्रेष्ठा नगपतिसुता निर्जरनुता
जगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥५॥
विलसन्नवरत्नमालिका कुटिलश्यामलकुन्तलालिका ।
नवकुङ्कुमभव्यभालिकाऽवतु सा मां सुखकृद्धि कालिका ॥६॥
यमुनाचलद्दमुना दुःखदवस्य देहिनाम् ।
अमुना यदि वीक्षिता सकृच्छमु नानाविधमातनोत्यहो ॥७॥
अनुभूति सतीप्राणपरित्राणपरायणा ।
देवैः कृतसपर्या सा काली कुर्याच्छुभानि नः ॥८॥
य इदं कालिकास्तोत्रं पठेत्तु प्रयतः शुचिः ।
देवीसायुज्यभुक् चेह सर्वान्कामानवाप्नुयात् ॥९॥
॥ इति कालिकास्तोत्रं सम्पूर्णम् ॥
॥ मेनया कृतं कालिकास्तोत्रं ॥
मेनोवाच
महामायां जगद्धात्रीं चण्डिकाङ् लोकधारिणीम् ।
प्रणमामि महादेवीं सर्वकामार्थदायिनीम् ॥२१॥
नित्यानन्दकरीं मायां योगनिद्रां जगत्प्रसूम् ।
प्रणमामि सदासिद्धां शुभसारसमालिनीम् ॥२२॥
मातामहीं सदानन्दां भक्तशोकविनाशिनीम् ।
आकल्पं वनितानां च प्राणिनां बुद्धिरूपिणीम् ॥२३॥
सा त्वं बन्धच्छेदहेतुर्यतीनां कस्ते गेयो मादृशीभिः प्रभावः ।
हिंसाया वाथर्ववेदस्य सा त्वं नित्यं कामं त्वं ममेष्टं विधेहि ॥२४॥
नित्यानित्यैर्भावहीनैः परास्तैस्तत्तन्मात्रैर्योज्यते भूतवर्गः ।
तेषां शक्तिस्त्वं सदा नित्यरूपा काले योषा योगयुक्ता समर्था ॥२५॥
योनिर्धरित्री जगतां त्वमेव त्वमेव नित्या प्रकृतिः परस्तात् ।
यथा वशं क्रियते ब्रह्मरूपं सा त्वं नित्या मे प्रसीदाद्य मातः ॥२६॥
त्वं जातवेदोगतशक्तिरुग्रा त्वं दाहिका सूर्यकरस्य शक्तिः ।
आह्लादिका त्वं बहुचन्द्रिका या तां त्वामहं स्तौमि नमामि चण्डीम् ॥२७॥
योषाणां सत्प्रिया च त्वं नित्या त्वं चोर्ध्वरेतसाम् ।
वाञ्छा त्वं सर्वजगतां धाया च त्वं यथा हरेः ॥२८॥
या चेष्टरूपाणि विधाय देवी सृष्टिस्थितानाशमयी च कर्त्री ।
ब्रह्माच्युतस्थाणुशरीरहेतुस्सा त्वं प्रसीदाद्य पुनर्नमस्ते ॥२९॥
॥इति शिवपुराणे रुद्रसंहितायां पार्वतीखण्डे पञ्चमाध्यायान्तर्गतं मेनया कृतं कालिकास्तोत्रं समापतम् ॥
॥ काली ताण्डवस्तोत्र ॥
हुंहुंकारे शवारूढे नीलनीरजलोचने ।
त्रैलोक्यैकमुखे दिव्ये कालिकायै नमोऽस्तुते ॥१॥
प्रत्यालीढपदे घोरे मुण्डमालाप्रलम्बिते ।
खर्वे लम्बोदरे भीमे कालिकायै नमोऽस्तुते ॥२॥
नवयौवनसम्पन्ने गजकुम्भोपमस्तनी ।
वागीश्वरी शिवे शान्ते कालिकायै नमोऽस्तुते ॥३॥
लोलजिह्वे हरालोके नेत्रत्रयविभूषिते ।
घोरहास्यत्कटा कारे कालिकायै नमोऽस्तुते ॥ ४॥
व्याघ्रचर्म्माम्बरधरे खड्गकर्त्तृकरे धरे ।
कपालेन्दीवरे वामे कालिकायै नमोऽस्तुते ॥५॥
नीलोत्पलजटाभारे सिन्दुरेन्दुमुखोदरे ।
स्फुरद्वक्त्रोष्टदशने कालिकायै नमोऽस्तुते ॥६॥
प्रलयानलधूम्राभे चन्द्रसूर्याग्निलोचने ।
शैलवासे शुभे मातः कालिकायै नमोऽस्तुते ॥७॥
ब्रह्मशम्भुजलौघे च शवमध्ये प्रसंस्थिते ।
प्रेतकोटिसमायुक्ते कालिकायै नमोऽस्तुते ॥८॥
कृपामयि हरे मातः सर्वाशापरिपूरिते ।
वरदे भोगदे मोक्षे कालिकायै नमोऽस्तुते ॥९॥
॥ इत्युत्तरतन्त्रार्गतमं श्रीकालीताण्डवस्तोत्रं सम्पूर्णम् ॥
आद्या काली स्तोत्र – adya kali stotra
शृणु वत्स प्रवक्ष्यामि आद्यास्तोत्रं महाफलम् ।
यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः ॥१॥
मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित् कलौ युगे ।
अपुत्रा लभते पुत्रं त्रिपक्षं श्रवणं यदि ॥२॥
द्वौ मासौ बन्धनान्मुक्ति विप्रवक्त्रात् श्रुतं यदि ।
मृतवत्सा जीववत्सा षण्मासं श्रवणं यदि ॥३॥
नौकायां सङ्कटे युद्धे पठनाज्जयमाप्नुयात् ।
लिखित्वा स्थापयेद्गेहे नाग्निचौरभयं क्वचित् ॥४॥
राजस्थाने जयी नित्यं प्रसन्नाः सर्वदेवता ।
ॐ ह्रीं ब्रह्माणी ब्रह्मलोके च वैकुण्ठे सर्वमङ्गला ॥५॥
इन्द्राणी अमरावत्यामम्बिका वरुणालये ।
यमालये कालरूपा कुबेरभवने शुभा ॥६॥
महानन्दाग्निकोने च वायव्यां मृगवाहिनी ।
नैरृत्यां रक्तदन्ता च ऐशाण्यां शूलधारिणी ॥७॥
पाताले वैष्णवीरूपा सिंहले देवमोहिनी ।
सुरसा च मणीद्विपे लङ्कायां भद्रकालिका ॥८॥
रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे ।
विरजा औड्रदेशे च कामाक्ष्या नीलपर्वते ॥९॥
कालिका वङ्गदेशे च अयोध्यायां महेश्वरी ।
वाराणस्यामन्नपूर्णा गयाक्षेत्रे गयेश्वरी ॥१०॥
कुरुक्षेत्रे भद्रकाली व्रजे कात्यायनी परा ।
द्वारकायां महामाया मथुरायां माहेश्वरी ॥११॥
क्षुधा त्वं सर्वभूतानां वेला त्वं सागरस्य च ।
नवमी शुक्लपक्षस्य कृष्णसैकादशी परा ॥१२॥
दक्षसा दुहिता देवी दक्षयज्ञविनाशिनी ।
रामस्य जानकी त्वं हि रावणध्वंसकारिणी ॥१३॥
चण्डमुण्डवधे देवी रक्तबीजविनाशिनी ।
निशुम्भशुम्भमथिनी मधुकैटभघातिनी ॥१४॥
विष्णुभक्तिप्रदा दुर्गा सुखदा मोक्षदा सदा ।
आद्यास्तवमिमं पुण्यं यः पठेत् सततं नरः ॥१५॥
सर्वज्वरभयं न स्यात् सर्वव्याधिविनाशनम् ।
कोटितीर्थफलं तस्य लभते नात्र संशयः ॥१६॥
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ।
नारायणी शीर्षदेशे सर्वाङ्गे सिंहवाहिनी ॥१७॥
शिवदूती उग्रचण्डा प्रत्यङ्गे परमेश्वरी ।
विशालाक्षी महामाया कौमारी सङ्खिनी शिवा ॥१८॥
चक्रिणी जयधात्री च रणमत्ता रणप्रिया ।
दुर्गा जयन्ती काली च भद्रकाली महोदरी ॥१९॥
नारसिंही च वाराही सिद्धिदात्री सुखप्रदा ।
भयङ्करी महारौद्री महाभयविनाशिनी ॥२०॥
॥ इति ब्रह्मयामले ब्रह्मनारदसंवादे आद्यास्तोत्रं समाप्तम् ॥
काली स्तोत्र – रुद्रयामलोक्त
श्रीआनन्दभैरवी उवाच
महाकाल शिवानन्द परमानन्दनिर्भर । त्रैलोक्यसिद्धिद प्राणवल्लभ श्रूयतां स्तवः ॥१॥
शाकिनी हृदये भाति सा देवी जननी शिवा । कालीति जगति ख्याता सा देवी हृदयस्थिता ॥२॥
निरञ्जना निराकारा नीलाञ्जनविकासिनी । आद्या देवी कालिकाख्या केवला निष्कला शिवा ॥३॥
अनन्ताऽनन्तरूपस्था शाकिनी हृदयस्थिता । तामसी तारिणी तारा महोग्रा नीलविग्रहा ॥४॥
कपाला मुण्डमालाढ्या शववाहनवाहना । ललज्जिह्वा सरोजाक्षी चन्द्रकोटिसमोदया ॥५॥
वाय्वग्निभूजलान्तस्था भवानी शून्यवासिनी । तस्मात् स्तोत्रमप्रकाश्यं कृष्णकाल्याः कुलोदयम् ॥६॥
श्रीकृष्णभगवत्याश्च नीलदेव्या कुलार्णवम् । गोपनीयं प्रयत्नेन सावधानोऽवधारय ॥७॥
महाभैरवी उवाच
श्रीकालीचरणं चराचरगुणं सौदामिनीस्तम्भनं
गुञ्जद्गर्वगुरुप्रभानखमुखाह्लादैककृष्णासनम् ।
प्रेतारण्यासननिर्मितामलकजा नन्दोपरिश्वासनं
श्रीमन्नाथ करारविन्दमिलनं नेत्राञ्जनं राजते ॥८॥
दीप्तिः प्राप्तिः समाप्तिः प्रियमतिसुगतिः सङ्गतिः शीतनीतौ
मिथ्यामिथ्यासुरथ्या नतिररतिसती जातिवृत्तिर्गुणोक्तिः ।
व्यापारार्थी क्षुधार्थी वसति रतिपतिर्ज्योतिराकाशगङ्गा
श्रीदुर्गाशम्भुकालीचरणकमलकं सर्वदा भाति सूक्ष्मम् ॥९॥
देवेन्द्राः पञ्चभूता रविशशिमुकुटाः क्रोधवेतालकोलाः
कैलासस्थाः प्रशस्ताः स्तवनमपि तत्प्रत्यहं सम्पठन्ति ।
आत्मानं श्रीदकालीकुलचरणतलं हृत्कुलानन्दपद्मे
ध्यात्वा ध्यात्वा प्रवीरा अहमनुबहुधीः स्तौमि किं ध्याननिष्ठः ॥१०॥
श्रुत्वा स्तोत्रगुणं तवैव चरणाम्भोजस्य वाञ्छाफलं
प्रेच्छामीहयति प्रियाय कुरुते मोक्षाय तत्त्वार्थतः ।
मातर्मोहिनिदानमानतरुणी कातीति मन्यामहे
योग्यश्रीचरणाम्बुजे त्रिजगतामानन्दपुञ्जे सुखम् ॥११॥
पुत्रौ श्रीदेवपूज्यौ प्रकुरुत इतिहासादिगूढार्थगुप्तिं
श्यामे मातः प्रसन्ना भव वरदकरी कारणं देहि नित्यम् ।
योगानन्दं शिवान्तः सुरतरुफलदं सर्ववेदान्तभाष्यं
सत्सङ्गं सद्विवेकं कुरु कुरु कवितापञ्चभूतप्रकाशम् ॥१२॥
आह्लादोद्रेककारी परमपदविदां प्रोल्बणार्थप्रकाशः
प्रेष्यः पारार्थचिन्तामणिगुण सरलः पारणः प्रेमगानः ।
सारात्मा श्रीस्तवोऽयं जयसुरवसतां शुक्रसंस्कारगन्ता
मन्ता मोहादिकानां सुरगणतरुणी कोटिभिर्ध्येय इन्द्रैः ॥१३॥
नामग्रहणविमलपावनपुण्यजलनिधिमन्थनेन ।
निर्मलचित्तगसुरगुणपारग सुखसुधाकरस्थितहास्येन ।
योगधराधरनरवर कुञ्जरभुजयुगदीर्घपद्ममृणालेन ॥१४॥
हरिविधिहर अपरपरसरभावकपाल सेवनेन ।
सुन्दरी काली चरणेन ॥१५॥
भास्वत्कोटिप्रचण्डानलगुणललिताभाविता सिद्धकाली
प्रोक्तं यद्योगगीतावचनसुरचनामङ्गलं योगिनाद्या ।
श्यामानन्दद्रुमाख्ये भजनयजनगङ्गाङ्गतीरप्रकाशं
सर्वानन्दोत्सवत्वं वरदसुरवदासम्भवे मय्यभावे ॥१६॥
एतत्प्रथमे कुलं गुरुकुलं लावण्यलीलाकुलं
प्राणानन्दकुलं कुलाकुलकुलं कालीकुलं सङ्कुलम् ।
मातः कालियुगादि कौलिनि शिवे सर्वन्तराङ्गस्थितं
नित्यं तत्र नियोजय श्रुतिगिरा श्रीधर्मपुत्रं भवे ॥१७॥
हेरम्बादि कुलेशयोगजननि त्वं योगतत्त्वप्रिया
यद्येवं कुरुते पदाम्बुजरजो योगं तवानन्ददम् ।
सः स्यात्सङ्कटपाटलारिसदनं जित्वा स्वयं मन्मथं
श्रीमान्मन्मथमन्मथः प्रचयति ह्यष्टाङ्गयोगं परम् ॥१८॥
योगी याति परं पदं सुखपदं वाञ्छास्पदं सम्पदं
त्रैलोक्यं परमेश्वरं यदि पुनः पारं भवाम्भोनिधेः ।
भावं भूधरराजराजदुहिते ज्ञातं विचारं तव
श्रीपादाम्बुजपूजनं प्रकुरुते ते नीरदप्रोज्ज्वले ॥१९॥
आदावष्टाङ्गयोगं वदति भवसुखं भक्तिसिद्धान्तमेकं
भूलोके पावनाख्यं पवनगमनगं श्रीनगेन्द्राङ्गजायाः ।
सिद्धीनामष्टसिद्धिं यमनियमवशादासनप्राणयोगात्
प्रत्याहारं विभोर्ध्वारुणगुणवसनं ध्यानमेवं समाधिम् ॥२०॥
मातः शान्तिगुणावलम्बिनि शिवे शान्तिप्रदे योगिनां
दारे देवगुणे विधेहि सकलं शान्तिक्रियामङ्गलम् ।
यज्ञानामुदयं प्रयाति सहसा यस्याः प्रसादाद् भुवं
तां सर्वां प्रवदामि कामदहनस्तम्भाय मोहक्षयात् ॥२१॥
एको जीवति योगिराडतिसुखी जीवन्ति न श्रीसुताः
सर्वं योगभवं भवे विभवगाः पश्यन् स्वकीयायुषम् ।
इत्येवं परिभाव्य सर्वविषयं शान्तिं समालम्ब्यकौ
मूले वेददलोज्ज्वले कुलपथे श्रीकुण्डलीं भावय ॥२२॥
शान्तिभ्रान्तिनिकृन्तनी स्वरमणी प्रेमोद्गता भक्तिदा
लावण्याम्बुधिरत्नकोटिकिरणाह्लादैकमूर्तिप्रभा ।
एकाकारपराक्रमादपय मा क्रोधक्रमक्षोभिणी
या मूलामलपङ्कजे रचयति श्रीमाधुरी तां भजे ॥२३॥
रे रे पामर दुर्भग प्रतिदिनं किं कर्म वा राधसे
व्यापारं विषयाश्रयं प्रकुरुषे न ध्यायसे श्रीपदम् ।
मिथ्यैतत्क्षणभङ्गुरं त्यज मुदा संसारभावं विषं
श्रीकालीं कुलपण्डितां गुणवतीं शान्तिं समाराधय ॥२४॥
शिवस्त्री या शान्तिः परमसुखदा भावजनिका
विवेकः सञ्जातो वहसि च तया भाति नियतम् ।
विवेकोऽसौ त्यागी जनयति सुधासिन्धुसुन्दर-
मदो ब्रह्मज्ञानं परमममले योगिनिं परे ॥२५॥
द्वयं ब्रह्मज्ञानं परमममले चागममयं
विवेकोद्भूतं स्यादमलपरमं शब्दमपरम् ।
द्वयोर्मूलीभूता हृदि सपदि शान्तिः प्रियतमा
प्रभा कालीपादाम्बुजयुगलभक्तिप्रलयदा ॥२६॥
कुलश्रीकुण्डल्याः परमरसभावं नवमयं
पदं मातुः काल्याः प्रथमरविकान्त्याः सुखमयम् ।
वदामि प्रोत्साहे वशषसशुभे हाटकनिभे
विधिः श्रीडाकिन्याऽमरपतिधरित्रीति च भजेत् ॥२७॥
त्रयं स्थानं नित्यं रविशशिकलावह्निघटितं
महातीर्थं सम्यक् पवनगगनस्थं भवकरम् ।
विभिन्नं सङ्कृत्य द्वयमपि कुलग्रन्थिसहितं
सुषुम्नाश्रीतीर्थे महति गगने पूर्णलयवान् ॥२८॥
त्रयं संशोध्यादौ परमपदवीं गच्छति महान्
सुदृष्टाङ्गैर्योगैः परिभवति शुद्धं मम तनुम् ।
अतो योगाष्टाङ्गं कलुषसुखमुक्तं वितनुते
क्रियादौ सङ्कुर्याद्यमनियमकार्यं यतिवरः ॥२९॥
अहिंसासत्यार्थी प्रचयति सुयोगं तव पदं
धनस्ते यद्योगी शुचिधृतिदयादाननिपुणः ।
क्षमालध्वाहारी समगुणपरानन्दनिपुणः
स्वयं सिद्धः सद्ब्राह्मणकुलपताकी सुखमयी ॥३०॥
तपः सन्तोषाढ्यो हरयजन आस्तिक्यमतिमान्
यतीनां सिद्धान्तश्रवणहृदयप्राणविलयः ।
जयानन्दामग्नो हवनमनलेपः प्रकुरुते
महाभक्तः श्रीह्रीर्मतिरतिकुलीनस्तव पदः ॥३१॥
सुषुम्नामुखाम्भोरुहाग्रे च पद्मं दलं चेदहेमाक्षरं मूलदेशे ।
स्थिरापृष्ठवंशस्य मध्ये सुषुम्नान्तरे वज्रिणी चित्रिणीभासिपद्मैः ॥३२॥
सुषुम्नादिनाड्या युगात् कर्णमूलात्प्रकाशप्रकाशा बहिर्युग्मनाडी ।
इडा पिङ्गला वामभागे च दक्षे सुधांशूरवी राजसे तत्र नित्यम् ॥३३॥
विसर्गं बिन्द्वन्तं स्वगुणनिलयं त्वं जनयसि
त्वमेका कल्याणी गिरिशजननी कालिकलया ।
परानन्दं कृत्वा यदि परिजपन्ति प्रियतमाः
परिक्षाल्य ज्ञानैरिह परिजयन्ति प्रियपदम् ॥३४॥
अष्टादशाङ्गुलगतं ऋजुदन्तकाष्ठं
स्वीयाङ्गुलार्धघटितं प्रशरं शनैर्यः ।
संयोज्य तालुरसनागलरन्ध्रमध्ये
दन्तीक्रियामुपचरेत् तव भावनाय ॥३५॥
नाडीक्षालनमाकरोति यतिराड् दण्डे त्रयं धारयन्
युष्मच्छ्रीचरणार्पणो नवमदण्डस्यानिलस्तम्भनात् ।
प्राणायामफलं यतिः प्रतिदिनं संवर्धते सुश्रमा-
दानन्दाम्बुधिमज्जनं कुलरसैर्मुक्तो भवेत् तत्क्षणात् ॥३६॥
वदामि परमश्रिये पदपद्मयोगं शुभं
हिताय जगतां मम प्रियगणस्य भागश्रिये ।
सदा हि कुरुते नरः सकलयोगसिद्धिं मुदा
तदैव तव सेवको जननि मातरेकाक्षरम् ॥३७॥
करुणासागरे मग्नः सदा निर्मलतेजसा । तवाङ्घ्रिकोमलाम्भोजं ध्यात्वा योगीश्वरो भवेत् ॥३८॥
करुणासागरे मग्नो येन योगेन निर्मलः। तद्योगं तव पादाब्जं को मूर्खः कः सुपण्डितः ॥३९॥
यमनियमसुकाले नेउलीयोगशिक्षा
प्रभवति कफनाशा नाशरन्ध्रे त्रिसूत्री ।
हृदयकफविनाशा धोतिका योगशिक्षा
गलविलगलवस्त्रं षष्टिहस्तं वहन्ती ॥४०॥
सुसूक्ष्मरसनस्य च स्वभुजषष्टिहस्तं गल
प्रमाणमिति सन्ततप्रसरपञ्चयुग्माङ्गुलम् ।
पवित्रशुचिधोतिकारं भवसि सर्वपीडापहा
स्वकण्ठकमलोदयाममलभीतदामा भजे ॥४१॥
भजति यदि कुमारीं नेउली योगदृष्ट्या
स भवति परवेत्ता मोहजालं छिनत्ति ।
स्मितमुखि भवति त्वां मूढ एवातिजीवो
भ्रमितमुदवधूर्ना कारसिद्धिं ददासि ॥४२॥
शनैर्दन्ती योगं स्वपदयुगपद्मे वितनुते
शिवे योगी मासादपि भवति वायुं स्थगयति ।
असौ मन्त्री चाम्रातकदलं सुदण्डं गलविले
नियोज्यादौ ध्यात्वा तव चरणपङ्केरुहतलम् ॥४३॥
कुलाकुलचेतता परिकरोषि विल्वच्छदी
सुशान्तिगुणदा जया परमभक्तिनिर्गुण्डिका ।
मुकुन्दतुलसी प्रिया गुणिनि मुक्तिदा योगिनी
ददास्यमरसम्पदं दलवियोगमूर्ध्वोदरीम् ॥४४॥
पञ्चामरासाधनयोगकर्त्री पञ्चामरानाम महौषधिः स्थिता ॥
त्वमेव सर्वेश्वररूपधारिणी यैः पूज्यते सोऽहिकपारमेष्ठी ॥४५॥
पठति यदि भवान्याः शाकिनीदेहदेव्याः स्तवनमरुणवर्णामार्कलक्ष्म्याः प्रकाशम् ॥
व्रजति परमराज्यं देवपूज्यः प्रतिष्ठो मनुजपनसुशीलो लीलया शम्भुरूपम् ॥४६॥
प्रातर्मध्याह्नकाले च सायाह्ने च त्रिसप्तके । शतं पठित्वा मोक्षः स्यात् पुरश्चर्याफलं लभेत् ॥४७॥
॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे शाकिनीकृत कालीस्तवनं नाम द्विसप्ततितमः पटलः ॥७२॥
काली स्तोत्र – कालिकापुराणोक्त
दक्ष उवाच
शिवा शान्ता महामाया योगनिद्रा जगन्मयी । या प्रोच्यते विष्णुमाया तां नमामि सनातनीम् ॥४९॥
यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् । स्थितिञ्च विष्णुरकरोद्यन्नियोगाज्जगत्पतिः ॥५०॥
शम्भुरन्तं ततो देवीं त्वां नमामि महीयसीम् ।
विकाररहितां शुद्धामप्रमेयां प्रभावतीम् । प्रमाणमानमेयाख्यां प्रणमामि सुखात्मिकाम् ॥५१॥
यस्त्वां विचिन्तयेद्देवीं विद्याविद्यात्मिकां पराम् । तस्य भोग्यञ्च मुक्तिश्च सदा करतले स्थिता ॥५२॥
यस्त्वां प्रत्यक्षतो देवीं सकृत् पश्यति पावनीम् । तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिकाम् ॥५३॥
योगनिद्रे महामाये विष्णुमाये जगन्मयि । या प्रमाणार्थसम्पन्ना चेतना सा तवात्मिका ॥५४॥
ये स्तुवन्ति जगन्मातर्भवतीमम्बिकेति च । जगन्मयीति मायेति सर्वं तेषां भविष्यति ॥५५॥
॥ इति कालिकापुराणे अष्टमाध्यायान्तर्गता दक्षप्रोक्ता कालीस्तुतिः समाप्ता ॥
काली स्तोत्र – ब्रह्मवैवर्तपुराणोक्त
परशुराम उवाच
नमः शङ्करकान्तायै सारायै ते नमो नमः । नमो दुर्गतिनाशिन्यै मायायै ते नमो नमः ॥१॥
नमो नमो जगद्धात्र्यै जगत्कर्त्र्यै नमो नमः । नमोऽस्तु ते जगन्मात्रे कारणायै नमो नमः ॥२॥
प्रसीद जगतां मातः सृष्टिसंहारकारिणि । त्वत्पादौ शरणं यामि प्रतिज्ञां सार्थिकां कुरु ॥३॥
त्वयि मे विमुखायां च को मां रक्षितुमीश्वरः । त्वं प्रसन्ना भव शुभे मां भक्तं भक्तवत्सले ॥४॥
युष्माभिः शिवलोके च मह्यं दत्तो वरः पुरा । तं वरं सफलं कर्तुं त्वमर्हसि वरानने ॥५॥
जामदग्न्यस्तवं श्रुत्वा प्रसन्नाऽभवदम्बिका । मा भैरित्येवमुक्त्वा तु तत्रैवान्तरधीयत ॥६॥
एतद् भृगुकृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् । महाभयात्समुत्तीर्णः स भवेदेव लीलया ॥७॥
स पूजितश्च त्रैलोक्ये तत्रैव विजयी भवेत् । ज्ञानिश्रेष्ठो भवेच्चैव वैरिपक्षविमर्दकः ॥८॥
॥ इति श्रीब्रह्मवैवर्तपुराणे गणेशखण्डे षट्त्रिंशोऽध्यायान्तर्गतम् श्रीपरशुरामकृतं कालीस्तोत्रं सम्पूर्णम् ॥
कामकला काली स्तोत्र – dakshina kali stotra
महाकाल उवाच
अथ वक्ष्ये महेशानि देव्याः स्तोत्रमनुत्तमम् ।
यस्य स्मरणमात्रेण विघ्ना यान्ति पराङ्मुखाः ॥१॥
विजेतुं प्रतस्थे यदा कालकस्यासुरान् रावणो मुञ्जमालिप्रवर्हान् ।
तदा कामकालीं स तुष्टाव वाग्भिर्जिगीषुर्मृधे बाहुवीर्य्येण सर्वान् ॥२॥
महावर्त्तभीमासृगब्ध्युत्थवीचीपरिक्षालिता श्रान्तकन्थश्मशाने ।
चितिप्रज्वलद्वह्निकीलाजटाले शिवाकारशावासने सन्निषण्णाम् ॥३॥
महाभैरवीयोगिनीडाकिनीभिः करालाभिरापादलम्बत्कचाभिः ।
भ्रमन्तीभिरापीय मद्यामिषास्रान्यजस्रं समं सञ्चरन्तीं हसन्तीम् ॥४॥
महाकल्पकालान्तकादम्बिनीत्विट्परिस्पर्द्धिदेहद्युतिं घोरनादाम् ।
स्फुरद्द्वादशादित्यकालाग्निरुद्र ज्वलद्विद्युदोघप्रभादुर्निरीक्ष्याम् ॥५॥
लसन्नीलपाषाणनिर्माणवेदि प्रभश्रोणिबिम्बां चलत्पीवरोरुम् ।
समुत्तुङ्गपीनायतोरोजकुम्भां कटिग्रन्थितद्वीपिकृत्त्युत्तरीयाम् ॥६॥
स्रवद्रक्तवल्गन्नृमुण्डावनद्धा सृगाबद्धनक्षत्रमालैकहाराम् ।
मृतब्रह्मकुल्योपक्लृप्ताङ्गभूषां महाट्टाट्टहासैर्जगत् त्रासयन्तीम् ॥७॥
निपीताननान्तामितोद्धृत्तरक्तोच्छलद्धारया स्नापितोरोजयुग्माम् ।
महादीर्घदंष्ट्रायुगन्यञ्चदञ्चल्ललल्लेलिहानोग्रजिह्वाग्रभागाम् ॥८॥
चलत्पादपद्मद्वयालम्बिमुक्त प्रकम्पालिसुस्निग्धसम्भुग्नकेशाम् ।
पदन्याससम्भारभीताहिराजाननोद्गच्छदात्मस्तुतिव्यस्तकर्णाम् ॥९॥
महाभीषणां घोरविंशार्द्धवक्त्रैस्तथासप्तविंशान्वितैर्लोचनैश्च ।
पुरोदक्षवामे द्विनेत्रोज्ज्वलाभ्यां तथान्यानने त्रित्रिनेत्राभिरामाम् ॥१०॥
लसद्वीपिहर्य्यक्षफेरुप्लवङ्ग क्रमेलर्क्षतार्क्षद्विपग्राहवाहैः ।
मुखैरीदृशाकारितैर्भ्राजमानां महापिङ्गलोद्यज्जटाजूटभाराम् ॥११॥
भुजैः सप्तविंशाङ्कितैर्वामभागे युतां दक्षिणे चापि तावद्भिरेव ।
क्रमाद्रत्नमालां कपालं च शुष्कं ततश्चर्मपाशं सुदीर्घं दधानाम् ॥१२॥
ततः शक्तिखट्वाङ्गमुण्डं भुशुण्डीं धनुश्चक्रघण्टाशिशुप्रेतशैलान् ।
ततो नारकङ्कालबभ्रूरगोन्मादवंशीं तथा मुद्गरं वह्निकुण्डम् ॥१३॥
अधो डम्मरुं पारिघं भिन्दिपालं तथा मौशलं पट्टिशं प्राशमेवम् ।
शतघ्नीं शिवापोतकं चाथ दक्षे महारत्नमालां तथा कर्त्तुखड्गौ ॥१४॥
चलत्तर्ज्जनीमङ्कुशं दण्डमुग्रं लसद्रत्नकुम्भं त्रिशूलं तथैव ।
शरान् पाशुपत्यांस्तथा पञ्च कुन्तं पुनः पारिजातं छुरीं तोमरं च ॥१५॥
प्रसूनस्रजं डिण्डिमं गृध्रराजं ततः कोरकं मांसखण्डं श्रुवं च ।
फलं बीजपूराह्वयं चैव सूचीं तथा पर्शुमेवं गदां यष्टिमुग्राम् ॥१६॥
ततो वज्रमुष्टिं कुणप्पं सुघोरं तथा लालनं धारयन्तीं भुजैस्तैः ।
जवापुष्परोचिष्फणीन्द्रोपक्लृप्त क्वणन्नूपुरद्वन्द्वसक्ताङ्घ्रिपद्माम् ॥१७॥
महापीतकुम्भीनसावद्धनद्ध स्फुरत्सर्वहस्तोज्ज्वलत्कङ्कणां च ।
महापाटलद्योतिदर्वीकरेन्द्रावसक्ताङ्गदव्यूहसंशोभमानाम् ॥१८॥
महाधूसरत्त्विड्भुजङ्गेन्द्रक्लृप्त स्फुरच्चारुकाटेयसूत्राभिरामाम् ।
चलत्पाण्डुराहीन्द्रयज्ञोपवीत त्विडुद्भासिवक्षःस्थलोद्यत्कपाटाम् ॥१९॥
पिषङ्गोरगेन्द्रावनद्धावशोभा महामोहबीजाङ्गसंशोभिदेहाम् ।
महाचित्रिताशीविषेन्द्रोपक्लृप्त स्फुरच्चारुताटङ्कविद्योतिकर्णाम् ॥२०॥
वलक्षाहिराजावनद्धोर्ध्वभासि स्फुरत्पिङ्गलोद्यज्जटाजूटभाराम् ।
महाशोणभोगीन्द्रनिस्यूतमूण्डोल्लसत्किङ्कणीजालसंशोभिमध्याम् ॥२१॥
सदा संस्मरामीदृशों कामकालीं जयेयं सुराणां हिरण्योद्भवानाम् ।
स्मरेयुर्हि येऽन्येऽपि ते वै जयेयुर्विपक्षान्मृधे नात्र सन्देहलेशः ॥२२॥
पठिष्यन्ति ये मत्कृतं स्तोत्रराजं मुदा पूजयित्वा सदा कामकालीम् ।
न शोको न पापं न वा दुःखदैन्यं न मृत्युर्न रोगो न भीतिर्न चापत् ॥२३॥
धनं दीर्घमायुः सुखं बुद्धिरोजो यशः शर्मभोगाः स्त्रियः सूनवश्च ।
श्रियो मङ्गलं बुद्धिरुत्साह आज्ञा लयः शर्म सर्व विद्या भवेन्मुक्तिरन्ते ॥२४॥
॥ इतिश्रीमहावामकेश्वरतन्त्रे कालकेयहिरण्यपुरविजये रावणकृतं कामकलाकालीभुजङ्गप्रयातस्तोत्रराजं सम्पूर्णम् ॥
जिनकी 10 भुजाये है और क्रमशः उन भुजाओ में खड्ग, चक्र, गदा, बाण, धनुष, परिघ, त्रिशूल, भुशुण्डी, मुण्ड और शङ्ख धारण किया है।
ऐसी तीन नेत्रों वाली त्रिनेत्रा सभी अङ्गो में आभूषणों से विभूषित नीलमणि जैसी आभावाली दशमुखों वाली और दश पैरों वाली महाकाली माता; जिनकी स्तुति मधु कैटभ का वध करने के लिए विष्णु के सो जाने पर साक्षात् ब्रह्मदेव (ब्रह्माजी) ने की थी; का मैं ध्यान करता (या करती) हूँ।
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।