भगवान सूर्य को आरोग्य का देवता कहा गया है किन्तु इसके साथ ही सत्ता-विजय-सफलता आदि के लिये भी भगवान सूर्य की विशेष रूप से अराधना की जाती है। यदि विशेष रोगों की चर्चा करें तो कुष्ठ व चर्मरोग, नेत्रविकार, अस्थिविकार आदि में भगवान सूर्य की विशेष रूप से उपासना करनी चाहिये। सूर्य की उपासना में विशेष रूप से रोगमुक्ति और विजय प्राप्ति के लिये आदित्य हृदय स्तोत्र का अत्यधिक महत्व बताया गया है।
आदित्य हृदय स्तोत्र संस्कृत – 2 aditya hriday stotra
यहां सर्वप्रथम निरोगकारी आदित्यहृदय स्तोत्र पद्मपुराणोक्त दिया गया है तत्पश्चात भविष्योत्तरपुराणोक्त आदित्यहृदय स्तोत्र दिया गया है और लंका पर विजय प्राप्त करने के लिये भगवान श्रीराम ने जिस आदित्य हृदय स्तोत्र से भगवान सूर्य की उपासना किया था वह वाल्मीकि रामायण में वर्णित है और वह भी दिया गया है। सभी स्तोत्र संस्कृत में दिये गये हैं क्योंकि स्तोत्र संस्कृत में ही होते हैं।
निरोगकारी आदित्यहृदय स्तोत्र पद्मपुराणोक्त
आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः । तृतीयं भास्करः प्रोक्तं चतुर्थं च प्रभाकरः ॥
पञ्चमं च सहस्रांशु षष्ठं चैव त्रिलोचनः । सप्तमं हरिदश्वं च अष्टमं तु अहर्पतिः ॥
नवमं दिनकरः प्रोक्तं दशमं द्वादशात्मकः । एकादशं त्रिमूर्तिश्च द्वादशं सूर्य एव तु ॥
॥ फलश्रुति ॥
द्वादशादित्यनामानि प्रातःकाले पठेन्नरः । दुःस्वप्नो नश्यते तस्य सर्वदुःखं च नश्यति ॥
दद्रुकुष्टहरं चैव दारिद्र्यं हरते ध्रुवम् । सर्वतीर्थकरं चैव सर्वकामफलप्रदम् ॥
यः पठेत् प्रातरुत्थाय भक्त्या स्तोत्रमिदं नरः । सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च ॥
॥ सूर्यस्य द्वादशनाम नमस्कारम् ॥
१. ॐ आदित्याय नमः ॥ २. ॐ दिवाकराय नमः ॥
३. ॐ भास्कराय नमः ॥ ४. ॐ प्रभाकराय नमः ॥
५. ॐ सहस्रांशवे नमः ॥ ६. ॐ त्रिलोचनाय नमः ॥
७. ॐ हरिदश्वाय नमः ॥ ८. ॐ विभावसवे नमः ॥
९. ॐ दिनकराय नमः ॥ १०. ॐ द्वादशात्मकाय नमः ॥
११. ॐ त्रिमूर्तये नमः ॥ १२. ॐ सूर्याय नमः ॥
॥ विनियोग : ॐ अस्य श्रीआदित्यहृदयस्तोत्रमन्त्रस्य श्रीकृष्ण ऋषिः, अनुष्टुप्छन्दः, श्रीसूर्यनारायणो देवता, हरितहयरथं दिवाकरं घृणिरिति बीजं, नमो भगवते जितवैश्वानर जातवेदसे नमः इति शक्तिः, अंशुमानिति कीलकं, अग्नि कर्म इति मन्त्रः, मम सर्वरोगनिवारणाय श्रीसूर्यनारायणप्रीत्यर्थे जपे विनियोगः ॥
॥ स्तवः ॥ अर्कं तु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् । विन्यसेत् करयोः सूर्यं कर्णयोश्च दिवाकरम् ॥
नासिकायां न्यसेत् भानुं मुखे वै भास्करं न्यसेत् । पर्जन्यमोष्ठयोश्चैव तीक्ष्णं जिह्वान्तरे न्यसेत् ॥
सुवर्णरेतसं कण्ठे स्कन्धयोस्तिग्मतेजसम् । बाह्वोस्तु पूषणं चैव मित्रं वै पृष्ठतो न्यसेत् ॥
वरुणं दक्षिणे हस्ते त्वष्टारं वामतः करे । हस्तावुष्णकरः पातु हृदयं पातु भानुमान् ॥
स्तनभारं महातेजा आदित्यमुदरे न्यसेत् । पृष्ठे त्वर्घमणं विद्यादादित्यं नाभिमण्डले ॥
कट्यां तु विन्यसेद्धंसं रुद्रमूर्वो विन्यसेत् । जान्होस्तु गोपतिं न्यस्य सवितारं तु जङ्घयोः ॥
पादयोस्तु विवस्वन्तं गुल्फयोश्च प्रभाकरम् । सर्वाङ्गेषु सहस्रांशु दिग्विदिक्षु भगं न्यसेत् ॥
बाह्यतस्तु तमोघ्नंसं भगमभ्यन्तरे न्यसेत् । एष आदित्यविन्यासो देवानामपि दुर्लभः ॥
॥ न्यासम् ॥
मूर्ध्नि अर्काय नमः ॥ ललाटे रवये नमः ॥
करयोः सूर्याय नमः ॥ कर्णयोः दिवाकराय नमः ॥
नासिकायां भानवे नमः ॥ मुखे भास्कराय नमः ॥
ओष्ठयोः पर्जन्याय नमः ॥ जिह्वायां तीक्ष्णाय नमः ॥
कण्ठे सुवर्णरेतसे नमः ॥ स्कन्धयोः तिग्मतेजसे नमः ॥
बाह्वोः पूषणाय नमः ॥ पृष्ठे मित्राय नमः ॥
दक्षहस्ते वरुणाय नमः ॥ वामहस्ते त्वष्टारं नमः ॥
हस्तौ उष्णकराय नमः ॥ हृदये भानुमते नमः ॥
स्तनयोः महातेजसे नमः ॥ उदरे आदित्याय नमः ॥
पृष्ठे अर्घमणाय नमः ॥ नाभौ विद्यादादित्याय नमः ॥
कट्यां हंसाय नमः ॥ ऊर्वोः रुद्राय नमः ॥
जान्होः गोपतये नमः ॥ जङ्घयोः सवित्रे नमः ॥
पादयोः विवस्वते नमः ॥ गुल्फयोः प्रभाकराय नमः ॥
सर्वाङ्गे सहस्रांशवे नमः ॥ दिग्विदिक्षु भगाय नमः ॥
बाह्ये तमोघ्नंसाय नमः ॥ अभ्यन्तरे भगाय नमः ॥
॥ ध्यानम् ॥
भास्वद्रत्नाढ्यमौलिः स्फुरदधररुचारञ्जितश्चारुकेशो
भास्वान् यो दिव्यतेजाः करकमलयुतः स्वर्णवर्णः प्रभाभिः ।
विश्वाकाशावकाशो ग्रहग्रहण सहितो भाति यश्चोदयाद्रौ
सर्वानन्दप्रदाता हरिहरनमितः पातु मां विश्वचक्षुः ॥
॥ अर्घ्यम् ॥
एहि सूर्य सहस्रांशो तेजोराशिः जगत्पते । अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर ॥
॥ॐ घृणिः सूर्य आदित्य ॥
॥ सूर्यस्तुतिः ॥
अग्निमीळे नमस्तुभ्यमीषत्तूर्यस्वरूपिणे । अग्न्यायाहि वीतये त्वं नमस्ते ज्योतिषां पते ॥
शन्नो देवो नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते । धवलाम्भोरुहणं डाकिनीं श्यामलप्रभाम् ॥
विश्वदीप नमस्तुभ्यं नमस्ते जगदात्मने । पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ॥
सप्ताश्वरथसंयुक्तो द्विभुजो भास्करो रविः । आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने ॥
जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते । नमो धर्मविपाकाय नमः सुकृतसाक्षिणे ॥
नमः प्रत्यक्षदेवाय भास्कराय नमो नमः । उदयगिरिमुपेतं भास्करं पद्महस्तम् ।
सकलभुवनरत्नं रत्नरत्नाभिधेयम् ॥
तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनाम् । सुरवरमभिवन्दे सुन्दरं विश्वरूपम् ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात् कारुण्यभावेन रक्षस्व परमेश्वर ॥
॥ इति श्रीपद्मपुराणे श्रीकृष्णार्जुनेसंवादे आदित्यहृदयस्तोत्रम् ॥
भविष्योत्तरपुराणोक्त आदित्यहृदय स्तोत्र
शतानीक उवाच
कथमादित्यमुद्यन्तमुपतिष्ठेद्विजोत्तमः । एतन्मेब्रूहि विप्रेन्द्र प्रपद्ये शरणं तव ॥१॥
सुमन्तुरुवाच
इदमेव पुरा पृष्टः शङ्खचक्रगदाधरः । प्रणम्य शिरसा देवमर्जुनेन महात्मना ॥२॥
कुरुक्षेत्रे महाराजप्रवृत्ते भारते रणे । कृष्णनाथं समासाद्य प्रार्थयित्वाब्रवीदिदम् ॥३॥
अर्जुन उवाच
ज्ञानं च धर्मशास्त्राणां गुह्याद्गुह्यतरं तथा । मम कृष्ण परिज्ञातं वाङ्मयं सचराचरम् ॥४॥
सूर्यस्तुतिमयं न्यासं वक्तुमर्हसि माधव । भक्त्या पृच्छामि देवेश कथयस्व प्रसादतः ॥५॥
सूर्यभक्तिं करिष्यामि कथं सूर्यं प्रपूजयेत् । तदहं श्रोतुमिच्छामि त्वत्प्रसादेन यादव ॥६॥
श्रीभगवानुवाच
रुद्रादिदैवतैः सर्वैः पृष्टेन कथितं मया । वक्ष्येऽहं सूर्यविन्यासं शृणु पाण्डव यत्नतः ॥७॥
अस्माकं यत्त्वया पृष्टमेकचित्तो भवार्जुन । तदहं सम्प्रवक्ष्यामि आदिमध्यावसानकम् ॥८॥
अर्जुन उवाच
नारायण सुरश्रेष्ठ पृच्छामि त्वां महायशः । कथमादित्यमुद्यन्तमुपतिष्ठेत्सनातनम् ॥९॥
श्रीभगवानुवाच
साधु पार्थ महाबाहो बुद्धिमानसि पाण्डव । यन्मां पृच्छस्युपस्थानं तत्पवित्रं विभावसोः ॥१०॥
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् । सर्वरोगप्रशमनमायुर्वर्धनमुत्तमम् ॥११॥
अमित्रदमनं पार्थ सङ्ग्रामे जयवर्धनम् । वर्धनं धनपुत्राणामादित्यहृदयं शृणु ॥१२॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः । त्रिषु लोकेषु विख्यातं निःश्रेयसकरं परम् ॥१३॥
देवदेवं नमस्कृत्य प्रातरुत्थाय चार्जुन । विघ्नान्यनेकरूपाणि नश्यन्ति स्मरणादपि ॥१४॥
तस्मात्सर्वप्रयत्नेन सूर्यमावाहयेत् सदा । आदित्यहृदयं नित्यं जाप्यं तच्छृणु पाण्डव ॥१५॥
यज्जपान्मुच्यते जन्तुर्दारिद्र्यादाशु दुस्तरात् । लभते च महासिद्धिं कुष्ठव्याधिविनाशिनीम् ॥१६॥
अस्मिन्मन्त्रे ऋषिश्छन्दो देवताशक्तिरेव च । सर्वमेव महाबाहो कथयामि तवाग्रतः ॥१७॥
मया ते गोपितं न्यासं सर्वशास्त्रप्रबोधितम् । अथ ते कथयिष्यामि उत्तमं मन्त्रमेव च ॥१८॥
॥ विनियोग : ॐ अस्य श्रीआदित्यहृदयस्तोत्रमन्त्रस्य श्रीकृष्ण ऋषिः । श्रीसूर्यात्मा त्रिभुवनेश्वरो देवता अनुष्टुप्छन्दः । हरितहयरथं दिवाकरं घृणिरिति बीजम् । ॐ नमो भगवते जितवैश्वानरजातवेदसे इति शक्तिः । ॐ नमो भगवते आदित्याय नमः इति कीलकम् । ॐ अग्निगर्भदेवता इति मन्त्रः । ॐ नमो भगवते तुभ्यमादित्याय नमोनमः । श्रीसूर्यनारायणप्रीप्यथं जपे विनियोगः ॥
॥ अथ न्यासः ॥
ॐ ह्रां अङ्गुष्ठाभ्यां नमः ॥
ॐ ह्रीं तर्जनीभ्यां नमः ॥
ॐ ह्रूं मध्यमाभ्यां नमः ॥
ॐ ह्रैं अनामिकाभ्यां नमः ॥
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ॥
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ॥
ॐ ह्रां हृदयाय नमः ॥
ॐ ह्रीं शिरसे स्वाहा ॥
ॐ ह्रूं शिखाय वषट् ॥
ॐ ह्रैं कवचाय हुम् ॥
ॐ ह्रौं नेत्रत्रयाय वौषट् ॥
ॐ ह्रः अस्त्राय फट् ॥
॥ ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति दिग्बन्धः ॥
॥ अथ ध्यानम् ॥
भास्वद्रत्नाढ्यमौलिः स्फुरदधररुचा रञ्जितश्चारुकेशो
भास्वान्यो दिव्यतेजाः करकमलयुतः स्वर्णवर्णः प्रभाभिः ।
विश्वाकाशावकाशग्रहपतिशिखरे भाति यश्चोदयाद्रौ
सर्वानन्दप्रदाता हरिहरनमितः पातु मां विश्वचक्षुः ॥१॥
पूर्वमष्टदलं पद्मं प्रणवादिप्रतिष्ठितम् । मायाबीजं दलाष्टाग्रे यन्त्रमुद्धारयेदिति ॥२॥
आदित्यं भास्करं भानुं रविं सूर्यं दिवाकरम् । मार्तण्डं तपनं चेति दलेष्वष्टसु योजयेत् ॥३॥
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा । अमोघा विद्युता चेति मध्ये श्रीः सर्वतो मुखी ॥४॥
सर्वज्ञः सर्वगश्चैव सर्वकारणदेवता । सर्वेशं सर्वहृदयं नमामि सर्वसाक्षिणम् ॥५॥
सर्वात्मा सर्वकर्ता च सृष्टिजीवनपालकः । हितः स्वर्गापवर्गश्च भास्करेश नमोऽस्तु ते ॥६॥
॥ इति प्रार्थना ॥
नमो नमस्तेऽस्तु सदा विभावसो सर्वात्मने सप्तहयाय भानवे ।
अनन्तशक्तिर्मणिभूषणेन ददस्व भुक्तिं मम मुक्तिमव्ययाम् ॥७॥
अर्कं तु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् । विन्यसेन्नेत्रयोः सूर्यं कर्णयोश्च दिवाकरम् ॥८॥
नासिकायां न्यसेद्भानुं मुखे वै भास्करं न्यसेत् । पर्जन्यमोष्ठयोश्चैव तीक्ष्णं जिह्वान्तरे न्यसेत् ॥९॥
सुवर्णरेतसं कण्ठे स्कन्धयोनितग्मतेजसम् । बाह्वोस्तु पूषणं चैव मित्रं वै पृष्ठतो न्यसेत् ॥१०॥
वरुणं दक्षिणे हस्ते त्वष्टारं वामतः करे । हस्तावुष्णकरः पातु हृदयं पातु भानुमान् ॥११॥
उदरे तु यमं विद्यादादित्यं नाभिमण्डले । कट्यां तु विन्यसेद्धंसं रुद्रमूर्वोस्तु विन्यसेत् ॥१२॥
जान्वोस्तु गोपतिं न्यस्य सवितारं जङ्घयोः । पादयोश्च विवस्वन्तं गुल्फयोश्च दिवाकरम् ॥१३॥
बाह्यतस्तु तमोध्वंस भगमभ्यन्तरे न्यसेत् । सर्वाङ्गेषु सहस्रांशुं दिग्विदिक्षु भग न्यसेत् ॥१४॥
॥ इति दिग्बन्धः॥
एष आदित्यविन्यासो देवानामपिदुर्लभः । इमं भक्त्या न्यसेत्पार्थ स याति परमां गतिम् ॥१५॥
कामक्रोधकृतात्पापान्मुच्यते नात्र संशयः । सर्पादपि भयं नैव सङ्ग्रामेषु पथिष्वपि ॥१६॥
रिपुसङ्घट्टकालेषु तथा चोरसमागमे । त्रिसन्ध्यं जपतो न्यास महापातकनाशनम् ॥१७॥
विस्फोटकसमुत्पन्न तीव्रज्वरसभुद्भवम् । शिरोरोगं नेत्ररोगं सर्वव्याधिविनाशनम् ॥१८॥
कुष्ठव्याधिस्तथा दद्रुरोगाश्च विविधाश्च ये । जपमानस्य नश्यन्ति शृणु भक्त्या तदर्जुन ॥१९॥
आदित्यो मन्त्रसंयुक्त आदित्यो भुवनेश्वरः । आदित्यान्नापरो देवो ह्यादित्यः परमेश्वरः ॥२०॥
आदित्यमर्चयेद्ब्रह्मा शिव आदित्यमर्चयेत् । यदादित्यमयं तेजो मम तेजत्तदर्जुन ॥२१॥
आदित्यं मन्त्रसंयुक्तमादित्यं भुवनेश्वरम् । आदित्यं ये प्रपश्यन्ति मां पश्यन्ति न संशयः ॥२२॥
त्रिसन्ध्यमर्चयेत्सूर्यं स्मरेद्भक्त्या तु यो नरः । न स पश्यति दारिद्र्यं जन्मजन्मनि चार्जुन ॥२३॥
एतत्ते कथितं पार्थ आदित्यहृदयं मया । शृणवन्मुक्तश्च पापेभ्यः सूर्यलोके महीयते ॥२४॥
नमो भगवते तुभ्यमादित्याय नमो नमः । आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ॥२५॥
महेन्द्रश्चैव कालश्च यमो वरुण एव च ।नक्षत्रग्रहताराणामधिपो विश्वतापनः ॥६१॥
वायुरग्निर्धनाध्यक्षो भूतकर्ता स्वयं प्रभुः । एष देवो हि देवानां सर्वमाप्यायते जगत् ॥६२॥
एष कर्ता हि भूतानां संहर्ता रक्षकस्तथा । एष लोकानुलोकाश्च सप्तद्वीपाश्च सागराः ॥६३॥
एष पातालसप्तस्था दैत्यदानवराक्षसाः । एष धाता विधाता च बीजं क्षेत्रं प्रजापतिः ॥६४॥
एष एव प्रजा नित्यं संवर्धयति रश्मिभिः । एष यज्ञः स्वधा स्वहा ह्रीः श्रीश्च पुरुषोत्तमः ॥६५॥
एष भूतात्मको देवः सूक्ष्मोऽव्यक्तः सनातनः । ईश्वरः सर्वभूतानां परमेष्ठी प्रजापतिः ॥६६॥
कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः । जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥६७॥
दारिद्र्यव्यसनध्वंसी श्रीमान्देवो दिवाकरः । कीर्तनीयो विवस्वांश्च मार्तण्डो भास्करो रविः ॥६८॥
लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः । लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा ॥६९॥
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः । गभस्तिहस्तो ब्रह्मण्यः सर्वदेवनमस्कृतः ॥७०॥
आयुरारोग्यमैश्वर्यं नरा नार्यश्च मन्दिरे । यस्य प्रसादात्सन्तुष्टिरादित्यहृदयं जपेत् ॥७१॥
इत्येनैर्नामभिः पार्थ आदित्यं स्तौति नित्यशः । प्रातरुत्थाय कौन्तेय तस्य रोगभयं नहि ॥७२॥
पातकान्मुच्यते पार्थ व्याधिभ्यश्च न संशयः । एकसन्ध्यं द्विसन्ध्यं वा सर्वपापैः प्रमुच्यते ॥७३॥
त्रिसन्ध्यं जपमानस्तु पश्येश्च परमं पदम् । यदह्नात्कुरुते पापं तदह्नात्प्रतिमुच्यते ॥७४॥
यद्रात्र्यात्कुरुते पापं तद्रात्र्यात्प्रतिमुच्यते । दद्रुस्फोटककुष्ठानि मण्डलानि विषूचिका ॥७५॥
सर्वव्याधिमहारोगभूतबाधास्तथैव च । डाकिनी शाकिनी चैव महारोगभयं कुतः ॥७६॥
ये चान्ये दुष्टगेगाश्च ज्वरातीसारकादयः । जपमानस्य नश्यन्ति जीवेच्च शरदां शतम् ॥७७॥
संवत्सरेण मरणं यदा तस्य ध्रुवं भवेत् । अशीर्षां पश्यतिच्छायामहोरात्रं धनञ्जय ॥७८॥
यस्त्विदं पठते भक्त्या भानोर्वारे महात्मनः । प्रातःस्नाने कृते पार्थ एकाग्रकृतमानसः ॥७९॥
सुवर्णचक्षुर्भवति न चान्धस्तु प्रजायते । पुत्रवान् धनसम्पन्नो जायते चारुजः सुखी ॥८०॥
सर्वसिद्धिमवाप्नोति सर्वत्र विजयी भवेत । आदित्यहृदयं पुण्यं सूर्यनामविभूषितम् ॥८१॥
श्रुत्वा च निखिलं पार्थ सर्वपापैः प्रमुच्यते । अतः परतरं नास्ति सिद्धिकामस्य पाण्डव ॥८२॥
एतज्जपस्व कौन्तेय येन श्रेयो ह्यवाप्स्यसि । आदित्यहृदयं नित्यं यः पठेत्सुसमाहितः ॥८३॥
भ्रूणहा मुच्यते पापात्कृतघ्नो ब्रह्मघातकः । गोघ्नः सुरापो दुर्भोजी दुष्प्रतिग्रहकारकः ॥८४॥
पातकानि च सर्वाणि दहत्येव न संशयः । य इदं शृणुयान्नित्य जपेद्वाऽपि समाहितः ॥८५॥
सर्वपापविशुद्धात्मा सूर्यलोके महीयते । अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात् ॥८६॥
कुरोगी मुच्यते रोगाद्भक्त्या यः पठते सदा । यस्त्वादित्यदिने पार्थ नाभिमात्रजले स्थितः ॥८७॥
उदयाचलमारूढं भास्करं प्रणतः स्थितः । जपते मानवो भक्त्या शृणुयाद्वापि भक्तितः ॥८८॥
स याति परमं स्थानं यत्र देवो दिवाकरः । अमित्रदमनं पार्थ यदा कर्तुं समारभेत् ॥८९॥
तदा प्रतिकृतिं कृत्वा शत्रोश्चरणपांसुभिः । आक्रम्य वामपादेन ह्यादित्यहृदयं जपेत् ॥९०॥
एतन्मन्त्रं समाहूय सर्वसिद्धिकरं परम् ।
॥ ॐ ह्रीं हिमालीढं स्वाहा । ॐ ह्रीं निलीढं स्वाहा । ॐ ह्रीं मालीढं स्वाहा ॥ इति मन्त्रः ।
त्रिभिश्च रोगी भवति ज्वरी भवति पञ्चभिः । जपैस्तु सप्तभिः पार्थ राक्षसीं तनुमाविशेत ॥९१॥
राक्षससेनाभिभूतस्य विकारान् शृणु पाण्डव । गीयते नृत्यते नग्न आस्फोटयति धावति ॥९२॥
शिवारुतं च कुरुते हसते क्रन्दते पुनः । एवं सम्पीड्यते पार्थ यद्यपि स्यान्महेश्वरः ॥९३॥
किं पुनर्मानुषः कश्चिच्छौचाचारविवर्जितः । पीडितस्य न सन्देहो ज्वरौ भवति दारुणः ॥९४॥
यदा चानुग्रहं तस्य कर्तुमिच्छेच्छुभङ्करम् । तदा सलिलमादाय जपेन्मन्त्रमिमं बुधः ॥९५॥
नमो भगवते तुभ्यमादित्याय नमो नमः । जयाय जयभद्राय हरिदश्वाय ते नमः ॥९६॥
स्नापयेत्तेन मन्त्रेण शुभं भवति नान्यथा । अन्यथा च भवेद्दोषो नश्यते नात्र संशयः ॥९७॥
अतस्ते निखिलः प्रोक्तः पूजां चैव निबोध मे । उपलिप्ते शुचौ देशे नियतो वाग्यताः शुचिः ॥९८॥
वृत्तं वा चतुरस्रं वा लिप्तभूमौ लिखेच्छचि । त्रिधा तत्र लिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥९९॥
अष्टपत्रंलिखेत्पद्मं लिप्तगोमयमण्डले । पूर्वपत्रे लिखेत् सूर्यमाग्नेय्यां तु रविं न्यसेत् ॥१००॥
याम्यायां च विवस्वन्तं नैरृत्यां तु भगं न्यसेत् । प्रतीच्यां वरुणं विद्याद्वायव्यां मित्रमेव च ॥१०१॥
आदित्यमुत्तरे पत्रे ईशान्यां मित्रमेव च । मध्ये तु भास्करं विद्यात्क्रमेणैवं समर्चयेत् ॥१०२॥
अतः परतरं नास्ति सिद्धिकामस्य पाण्डव । महातेजः समुद्यतं प्रणमेत्स कृताञ्जलिः ॥१०३॥
सकेसराणि पद्मानि करवीराणि चार्जुन । तिलतन्द्गुलयुक्तानि कुशगन्धोदकानि च ॥१०४॥
रक्तचन्दनमिश्राणि कृत्वा वै ताम्रभाजने । धृत्वा शिरसि तत्पात्रं जानुभ्यां धरणीं स्पृशेत् ॥१०५॥
मन्त्रपूतं गुडाकेशः चार्घ्यं दद्याद्गभस्तये । सायुधं सरथं चैव सूर्यमावाहयाम्यहम् ॥१०६॥
स्वागतो भव ।
सुप्रतिष्ठितो भव ।
सन्निधौ भव ।
सन्निहितो भव ।
सम्मुखो भव ।
इति पञ्चमुद्राः ।
स्फुटयित्वाऽर्हयेत्सूर्यं भुक्ति मुक्तिं लभेन्नरः ॥१०७॥
ॐ श्रीं विद्या किलिकिलिकटकेष्टसर्वार्थसाधनाय स्वाहा ॥
ॐ श्रीं ह्रीं ह्रूं हंसः सूर्याय नमः स्वाहा ॥
ॐ श्रीं ह्रां ह्रीं ह्रूं ह्रः सूर्यमूर्तये स्वाहा ॥
ॐ श्रीं ह्रीं खं खः लोकाय सूर्यमूर्तये स्वाहा ॥
ॐ ह्रूं मार्तण्डाय स्वाहा ॥
नमोऽस्तु सूर्याय सहस्रभानवे नमोऽस्तु वैश्वानरजातवेदसे ।
त्वमेव चार्घ्यं प्रतिगृह्ण देव देवाधिदेवाय नमो नमस्ते ॥१०८॥
नमो भगवते तुभ्यं नमस्ते जातवेदसे । दत्तमर्घ्यं मया भानो त्वं गृहाण नमोऽस्तु ते ॥१०९॥
एहि सूर्य सहस्रांशो तेजोराशे जगत्पते । अनुकम्पय मां देव गृहाणार्घ्यं नमोऽस्तुते ॥११०॥
हरितहयरथं दिवाकरं कनकमयाम्बुजरेणुपिञ्जरम् ।
प्रतिदिनमुदये नवं शरणमुपैमि हिरण्यरेतसम् ॥१२२॥
न तं व्यालाः प्रबाधन्ते न व्याधिभ्योभयं भवेत् । न नागेभ्यो भयं चैव नच भूतभयं क्वचित् ॥१२३॥
अग्निशत्रुभयं नास्ति पार्थिवेभ्यस्तथैव च । दुर्गतिं तरते घोरां प्रजां च लभते पशून् ॥१२४॥
सिद्धिकामो लभेत्सिद्धिं कन्याकामस्तु कन्यकाम् । एतत्पठेत्स कौन्तेय भक्तियुक्तेन चेतसा ॥१२५॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च । कन्याकोटिसहस्रस्य दत्तस्य फलमाप्नुयात् ॥१२६॥
इदमादित्यहृदयं योऽधीते सततं नरः । सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥१२७॥
नास्त्यादित्यसमो देवो नास्त्यादित्यसमा गतिः । प्रत्यक्षो भगवन्विष्णुर्येन विश्वं प्रतिष्ठितम् ॥१२८॥
नवतिर्योजनं लक्षं सहस्राणि शतानि च । यावद्घटीप्रमाणेन तावच्चरति भास्करः ॥१२९॥
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् । तत्फलं लभते विद्वाञ्शान्तात्मा स्तौति यो रविम् ॥१३०॥
योऽधीते सूर्यहृदयं सकलं सफलं भवेत् । अष्टानां ब्राह्मणानां च लेखयित्वा समर्पयेत् ॥१३१॥
ब्रह्मलोके ऋषीणां च जायते मानुषोऽपि वा । जातिस्मरत्वमाप्नोति शुद्धात्मा नात्र संशयः ॥१३२॥
अजाय लोकत्रयपावनाय भूतात्मने गोपतये वृषाय ।
सूर्याय सर्वप्रलयान्तकाय नमो महाकारुणिकोत्तमाय ॥१३३॥
विवस्वते ज्ञानमृदन्तरात्मने जगत्प्रदीपाय गजद्धितैषिणे ।
स्वयम्भुवे दीप्तसहस्रचक्षुषे सुरोत्तमायामिततेजसे नमः ॥१३४॥
सुरैरनेकैः परिषेविताय हिरण्यगर्भाय हिरण्मयाय ।
महात्मने मोक्षपदाय नित्यं नमोऽस्तु ते वासरकारणाय ॥१३५॥
आदित्यश्चार्चितो देव आदित्यः परमं पदम् । आदित्यो मातृको भूत्वा आदित्यो वाङ्मय जगत् ॥१३६॥
आदित्यं पश्यते भक्त्या मां पश्यति ध्रुवं नरः । नादित्यं पश्यते भक्त्या न स पश्यति मां नरः ॥१३७॥
त्रिगुणं च त्रितत्त्वं च त्रयो देवास्त्रयोऽग्नयः । त्रयाणां च त्रिमूर्तिस्त्वं तुरीयस्त्वं नमोऽस्तु ते ॥१३८॥
नमः सवित्रे जगदेक चक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे विरिञ्चिनारायणशङ्करात्मने ॥१३९॥
यस्योदयेनेह जगत्प्रबुद्ध्यते प्रवर्तते चाखिलकर्मसिद्धये ।
ब्रह्मेन्द्रनारायणरुद्रवन्दितः स नः सदा यच्छतु मङ्गलं रविः ॥१४०॥
नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वितसम्भवात्मने ।
सहस्रयोगोद्भवभावभागिने सहस्रसङ्ख्यायुगधारिणे नमः ॥१४१॥
यत्मण्डलं दीतिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम् ।
दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥१४२॥
यन्मण्डलं देवगणैः सुपूजितं विप्रैः स्तुतम्भावनमुक्तिकोविदम् ।
तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥१४३॥
यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् ।
समस्ततेजोमयदिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥१४४॥
यन्मण्डलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् ।
यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥१४५॥
यन्मण्डलं व्याधि विनाशदक्षं यदृग्यजुः सामसु सम्प्रगीतम् ।
प्रकाशितं येन च भूर्भुवःस्वः पुनातु मां तत्सवितुवरेण्यम् ॥१४६॥
यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारण सिद्धसङ्घाः ।
यद्योगिनो योगजुषां च सङ्घाः पुनातु मां तत्सवितुर्वरेण्यम् ॥१४७॥
यन्मण्डलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके ।
यत्कालकालादिमनादिरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥१४८॥
यन्मण्डलं विष्णुचतुर्मुखाख्यं यदक्षरं पापहारं जनानाम् ।
यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥१४९॥
यन्मण्डलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाम्प्रलयप्रगल्भम् ।
यस्मिञ्जगत्संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥१५०॥
यन्मण्डलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम् ।
सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥१५१॥
यन्मण्डलं ब्रह्मविदो वदन्ति गायन्ति यच्चारणसिद्धसङ्घाः ।
यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ॥१५२॥
यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथातुगम्यम् ।
तत्सर्ववेदं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥१५३॥
मण्डलाष्टमिदं पुण्यं यः पठेत्सततं नरः । सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥१५४॥
ध्येयः सदासवितृमण्डलमध्यवर्ती नारायणः सरसिजासन सन्निविष्टः ।
केयूरवान्मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥१५५॥
सशङ्खचक्रं रविमण्डले स्थितं कुशेशयाक्रान्तमनन्तमच्युतम् ।
भजामि बुद्धया तपनीयमूर्तिं सुरोत्तमं चित्रविभूषणोज्ज्वलम् ॥१५६॥
एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः । कीर्तयन्ति सुरश्रेष्ठं देवं नारायणं बिभुव ॥१५७॥
वेदवेदाङ्गशरीरं दिव्यदीप्तिकरं परम् । रक्षोश्नं रक्तवर्णं च सृष्टिसंहारकारकम् ॥१५८॥
एकचक्रो रथो यस्य दिव्यः कनकभूषितः । स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः ॥१५९॥
आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः । तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥१६०॥
पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः । सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः ॥१६१॥
नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकम् । एकादशं त्रयीमुर्तिर्द्वादशं सूर्य एव च ॥ १६२॥
द्वादशादित्यनामानि प्रातःकाले पठेन्नरः । दुःस्वप्ननाशनं चैव सर्वदुःखं च नश्यति ॥१६३॥
दद्रुकुष्ठहरं चैव दारिद्र्यं हरते ध्रुवम् । सर्वतीर्थप्रदं चैव सर्वकामप्रवर्धनम् ॥१६४॥
यः पठेत्मातरुत्थाय भक्त्या नित्यमिदं नरः । सौख्यमायुस्तथाऽऽरोग्यं लभते मोक्षमेव च ॥१६५॥
अग्निमीडे नमस्तुभ्यमिषेत्वोर्जेस्वरूपिणे । अग्र आयाहि पीतस्त्वं नमस्ते ज्योतिषां पते ॥१६६॥
शन्नो देवि नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते । पञ्चमायोपवेदाय नमस्तुभ्यं नमोनमः ॥१६७॥
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः । सप्ताश्वरथसंयुक्तो द्विभुजः स्यात्सदा रविः ॥१६८॥
आदित्यस्य नमस्कारं ये कुर्वन्ति दिनेदिने । जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ॥१६९॥
(नमो धर्मनिधानाय नमः सुकृतसाक्षिणे । नमः प्रत्यक्षदेवाय भास्कराय नमोनमः ॥
अपरः शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष दिवाकर ॥
पौरोहित्यं रजनिचरणं ग्रामणीत्वं निः योगो माठापत्यं वितथवचनं साक्षिवादः परान्नम् ।
ब्रह्मद्वेष खलजनरतिः प्राणिषु निर्दयत्वं माभूदेतन्मम दिनपते जन्मजन्मान्तरेऽपि ॥
उदयंस्तु महाभानुस्तेजसा चाभयङ्करः । सहस्ररश्मिदीप्तश्चत्वादित्यः प्रीयतां मम ॥)
उदयगिरिमुपेतं भास्करं पद्महस्तं
निखिलभुवननेत्रं रत्नंरत्नोपमेयम् ।
तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनां
सुरवरमभिवन्दे सुन्दरं विश्ववन्द्यम् ॥ १७०॥
॥ इति श्रीभविष्योत्तरपुराणे श्रीकृष्णार्जुनसंवादे आदित्यहृदयस्तोत्रं सम्पूर्णम् ॥
वाल्मीकि रामायणोक्त आदित्यहृदय स्तोत्र
॥ विनियोग : ॐ अस्य श्रीआदित्यहृदयस्तोत्रमन्त्रस्य श्रीअगस्त्यऋषिः । अनुष्टुप्छन्दः । श्रीआदित्यहृदयभूतो भगवान् ब्रह्मा देवताः । ॐ बीजम् । रश्मिमतेरिति शक्तिः । ॐ तत्सवितुरित्यादिगायत्री कीलकम् । निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः ॥
॥ अथ ऋष्यादिन्यासः ॥
ॐ अगस्त्यऋषये नमः शिरसि ॥
ॐ अनुष्टुप्छन्दसे नमः मुखे ॥
ॐ आदित्यहृदयभूतब्रह्मदेवतायै नमः हृदि ॥
ॐ बीजाय नमः गुह्ये ॥
ॐ रश्मिमते शक्तये नमः पादयोः ॥
ॐ तत्सवितुरित्यादिगायत्री कीलकाय नमः नाभौ ॥
ॐविनियोगाय नमः सर्वाङ्गे ॥
॥ इति ऋष्यादिन्यासः ॥
॥ अथ करन्यासः ॥
ॐ रश्मिमते अङ्गुष्ठाभ्यां नमः ॥
ॐ समुद्यते तर्जनीभ्यां नमः ॥
ॐ देवासुरनमस्कृताय मध्यमाभ्यां नमः ॥
ॐ विवस्वते अनामिकाभ्यां नमः ॥
ॐ भास्कराय कनिष्ठिकाभ्यां नमः ॥
ॐ भुवनेश्वराय करतलकरपृष्ठाभ्यां नमः ॥
॥ इति करन्यासः ॥
॥ अथ हृदयादिषडङ्ग न्यासः ॥
ॐ रश्मिमते हृदयाय नमः ॥
ॐ समुद्यते शिरसे स्वाहा ॥
ॐ देवासुरनमस्कृताय शिखायै वषट् ॥
ॐ विवस्वते कवचाय हुम् ॥
ॐ भास्कराय नेत्रत्रयाय वौषट् ॥
ॐ भुवनेश्वराय अस्त्राय फट् ॥
॥ इति हृदयादिषडङ्ग न्यासः ॥
॥ अथ आदित्यहृदयम् ॥
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥१॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥२॥
राम राम महाबाहो शृणु गुह्यं सनातनम् । येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥३॥
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् । जयावहं जपेन्नित्यमक्षयं परमं शिवम् ॥४॥
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् । चिन्ताशोकप्रशमनं आयुर्वर्धनमुत्तमम् ॥५॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥६॥
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः । एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥७॥
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥८॥
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः । वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ॥९॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥१०॥
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् । तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् ॥११॥
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः । अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥१२॥
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः । घनवृष्टिरपां मित्रो विन्ध्यवीथी प्लवङ्गमः ॥१३॥
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः । कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः ॥१४॥
नक्षत्रग्रहताराणामधिपो विश्वभावनः । तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥१५॥
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः । ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥१६॥
जयाय जयभद्राय हर्यश्वाय नमो नमः । नमो नमः सहस्रांशो आदित्याय नमो नमः ॥१७॥
नम उग्राय वीराय सारङ्गाय नमो नमः । नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥१८॥
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥१९॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥२०॥
तप्तचामीकराभाय वह्नये विश्वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥२१॥
नाशयत्येष वै भूतं तदेव सृजति प्रभुः । पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥२२॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः । एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥२३॥
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च । यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥२४॥
॥ फलश्रुतिः ॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥२५॥
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् । एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥२६॥
अस्मिन्क्षणे महाबाहो रावणं त्वं वधिष्यसि । एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ॥२७॥
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा । धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥२८॥
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् । त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥२९॥
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।सर्व यत्नेन महता वधे तस्य धृतोऽभवत् ॥३०॥
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसङ्क्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥३१॥
॥ इति आदित्यहृदयं मन्त्रम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।
Discover more from संपूर्ण कर्मकांड विधि
Subscribe to get the latest posts sent to your email.