अघोर का तात्पर्य है जो घोर न हो अर्थात भयंकर न हो। भगवान शिव का ही एक नाम अघोर भी है और इनके अघोर रूप की उपासना के लिये मंत्र, स्तोत्र आदि भी मिलते हैं। यहां अघोर स्तव संस्कृत में दिया गया है। इस अघोर स्तोत्र (aghor stotra) को अस्त्रराज भी कहा गया है। यह शस्त्रास्त्र, विष आदि सभी को निष्प्रभावी करने वाला कहा गया है।
पढ़िये अघोर स्तव संस्कृत में ~ aghor stotra
सकलभुवननाथं सर्वदं सर्ववन्द्यं
सहमनु मनुनाथं पूजयित्वा सशक्तिम् ।
परमशिवमघोरास्त्राख्यमन्त्राधिराजं
परिमितविषयाभिर्वाग्भिरभ्यर्चयामः ॥१॥
यत्पाशसंहृतिषु पाशुपतं महास्त्रं
ग्रन्थिप्रभेदनविधौ क्षुरिकास्त्रमाहुः ।
विघ्नस्तुतौ च शकलीकरणे शिवास्त्रं
वन्दे तदस्त्रमहमैशमघोरसंज्ञम् ॥२॥
यस्ते बिभर्ति निजमूर्धनि मन्त्रचक्रं
यो वा बिभर्त्यवयवेषु तदक्षराणि ।
सोऽयं निरस्य निखिलग्रहभूतरोगान्
जित्वास्त्रनायकरिपूनतिवृद्धिमेति ॥३॥
वज्रं शक्तिर्दण्डखड्गाहिपाशान्
वायोरस्त्रं सा गदा च त्रिशूलम् ।
पद्मं चक्रं साधयन्ति स्वकृत्यं
लब्ध्वाज्ञां ते दिग्भृतामायुधानि ॥४॥
न भवति विषपीडा नारिपीडा न चाधिः
न खलु निखिलरोगा नापि भूतग्रहार्तिः ।
न धनहरणभीतिर्नाभिचारस्य तेषां
सकृदपि भुवने त्वां येऽस्त्रराजं स्मरन्ति ॥५॥
मन्त्री जपाकुसुमसन्निभभीममूर्तिं
त्वां घोरमूर्धपरिपिङ्गलकेशपङ्क्तिम् ।
दंष्ट्राकरालवदनं तटिदाभजिह्वं
व्यात्ताननं रविशशिज्वलनोग्रनेत्रम् ॥६॥
नागेन्द्रभूषणकपालकृताङ्कमाला-
शोभान्वितं भ्रुकुटिभङ्गकरालवक्त्रम् ।
धूम्राम्बरं मुखरनूपुरमष्टबाहुं
ध्यायन् प्रसिध्यति झणत्क्वणकिङ्किणीकम् ॥७॥
त्वां दक्षिणैः करतलैरसिशूलमूल-
शक्तिं डमड्डमरुकं चषकं दधानं ।
खेटं त्रिशूलनृकपालसुरेन्द्रशस्त्रा-
ण्यारब्धयात्रमरिमर्दनमाश्रितोऽस्मि ॥८॥
कर्णद्वये करयुगे भुजयोश्च युग्मे
पार्श्वद्वये पदयुगे कटिमण्डले च ।
कुक्षौ गले शिरसि नाथ चतुर्दशाहीन्
तत्तद्विभूषणकृतात्मतनूर्बिभर्षि ॥९॥
वामे शूलदले स्थितस्तव हरिः श्रीनीलरुद्रः पुन-
र्मध्ये दक्षिणतो विधिः सुफलके गौरी गुहः कुम्भके ।
दण्डाग्रे गणनायको दिनकरो दण्डेऽस्य मूले स्मरः
तेनाघाहिगलग्रहोन्मदरिपूनस्त्रेश निर्नाशय ॥१०॥
त्वां सात्त्विकं धवलरूपमुपास्य मोक्षं
सम्प्राप्नुवन्ति मनुजाः सुखसन्निविष्टम् ।
आरक्तवर्णमद राजसमुद्धताङ्ग-
मा(साद)यन्ति सकलाभिमतार्थसिद्धिम् ॥११॥
शत्रुक्षयाय सकलामयनाशनाय
सर्वोपसर्गहतये च तवातिरौद्रम् ।
कृष्णं कृपानिलयतामसमेव शस्तं
यानोद्यतं यतिवराः कथयन्ति रूपम् ॥१२॥
यद्वा दमद्दमरुकासिपिशाचशूल-
मूलानि दक्षिणकरैरवरैः कपालम् ।
त्वां खेटकेन वरघण्टिकया च शूल-
मध्यं दधानमहमष्टभुजं नमामि ॥१३॥
आकर्षणे निखिलरोगहतौ रिपूणां
स्तम्भे वशीकरणमोहनदीपनेषु ।
युद्धोद्यतं तव पुरस्तटिदंशुभीमं
स्मृत्वोग्रदंष्ट्रमचिरेण फलं लभन्ते ॥१४॥
कृष्णप्रभं त्रिनयनं त्रिभुजं त्रिपादं
भीमं महाशनिरवं विकटाट्टहासम् ।
त्वां सूचिमुष्टिहननैरहिभूषिताङ्गं
ध्यायन्ति धावनपरं रिपुमारणादौ ॥१५॥
त्वां षड्भुजं त्रिनयनं शशिकान्तरूपं
पद्माननं विधृतभूषणमूर्धकेशम् ।
वामे कपालधनुषी दधतं सखेटं
शूलं शरं च परतः प्रणतोऽस्मि सासिम् ॥१६॥
व्याधादरिप्रमथने सति भूमिकम्पे
दाहे दिशां प्रचुरवृष्टिषु चण्डवाते ।
पापक्षये सकलवृद्धिषु शान्तिकादौ
भीतौ च देव तव रूपमिदं स्मरन्ति ॥१७॥
सजलघनघनाभं भीमदंष्ट्रं त्रिनेत्रं
भुजगधरमघोरं रक्तवस्त्राङ्गरागम् ।
परशुडमरुखड्गान् खेटकं बाणचापौ
त्रिशिखनरकपाले बिभ्रतं भावयामि ॥१८॥
शूलं मूलं पिशाचं शरमसिसृणियुक्टङ्कयुग्भिण्डिपालं
वज्रं तत्स्थूलमध्यं डमरुकमपरैर्घण्टिकां चापखेटौ ।
पाशं चक्रं च दण्डं भुजगमनलकं दक्षिणैर्बाहुदण्डै-
र्मध्ये त्वां विद्युदाभं विजयिनमनिशं घोरनाथं भजामः ॥१९॥
केऽप्यष्टकाधिकसहस्रकरं विदुस्त्वा-
मन्येऽपि चाष्टशतहस्तमतर्क्यवेषम् ।
केचिद्द्विपञ्चकरमष्टभुजं परेऽपि
केचिच्चतुर्भुजयुतं कतिचिद्द्विबाहुम् ॥२०॥
केचिद्वदन्ति धृतषोडशबाहुदण्ड-
मन्ये पुनर्द्विनवसङ्ख्यकरारविन्दम् ।
त्वां सर्वतः प्रसृतपाणिपदं तु शैवं
तेजः सुदुस्सहतरं वयमामनामः ॥२१॥
त्वां बाहुमूलवलयीकृततक्षकाहिं
तन्मध्यवेष्टितमहादृढपूर्वपद्मम् ।
पादाब्जसंस्थकुलिकं करपद्मशोभं
दण्डे कटीघटितवासुकिमेखलाङ्कम् ॥२२॥
त्वां शङ्खपालभुजगेन्द्रकृतोपवीतं
जानुद्वयस्फुरदनन्तमहोरगेन्द्रम् ।
लूतादिवृश्चिकविराजिविराजिताङ्गं
कर्कोटकाहिपरिभूषितकण्ठभागम् ॥२३॥
त्वां प्रस्फुरच्छिखिनिभोर्ध्वकचं स्फुरन्तं
घोराननं विकृतघोरतराहिभूषम् ।
वन्दामहे वरतनुं वररूपशोभं
वक्षोल्लसच्चटचटारवरुण्डमालम् ॥२४॥
आम्रेडितप्रयुतसङ्ख्यतटित्कृतास्थि-
मालाधरं कहकहारवभोगिभूषम् ।
भूयो वमज्ज्वलनदीप्तललाटनेत्रं
त्वां हुङ्कृतेन मम घातय घातयारीन् ॥२५॥
चक्रोद्धृतप्रणवफट्कृतसम्पुटं ते
मन्त्रोत्तमं जपति यः सममङ्गमन्त्रैः ।
अस्मात्परं मनुशतैः किमिहाल्पसारै-
रायातमिष्टमनिशं त्वयि सिद्धिमेति ॥२६॥
यः पञ्चषड्भिर्द्विदशाष्टयुग्मैर्वर्णैर्मनोज्ञैः परिकल्पिताङ्गः ।
ऋष्यादिकं बीजसशक्तिकीलयुक्त्यातिसञ्चिन्त्य जपेत्स धन्यः ॥२७॥
यो मस्तकेऽलिकतले नयनद्वये च
मध्ये भ्रुवोस्तव मनोरिह नासिकायाम् ।
कर्णद्वये हनुयुगे द्विजपङ्क्तियुग्मे
कण्ठेऽसयोश्च जठरे स्तनयोः क्रमेण ॥२८॥
वर्णान्निवेशयति वक्षसि नाभिदेशे
बाहुप्रकोष्ठतलपाणिषु वामतश्च ।
स्फिज्यूरुजानुतलतश्चरणेषु तद्व-
त्पायौ सलिङ्गवृषणे चरमाङ्गदेशे ॥२९॥
पार्श्वद्वये हृदि च तालुनि साधकेन्द्रः
पूजाविधौ जपविधौ च सुसम्प्रदायः ।
सोऽयं निरस्य निखिलार्तिमनेकसौख्या-
न्यासादयत्यनिमिषैरपि पूज्यमानः ॥३०॥
त्वां शेषकलृप्तवलयाङ्कितपाणिपद्मं
कर्कोटकाहिपरिभूषितदामशोभम् ।
वक्षःस्थलाभरणतक्षकनागशोभं
पद्माख्यनागपरिकल्पितहारभूषम् ॥३१॥
सुश्वेतपद्मपरिक्लृप्तललाटशोभं
मध्याङ्गलग्नकुलिकोदरबन्धनागम् ।
केचित्कटीघटितभूषितशङ्खपालं
कर्णावतंसवरवासुकिमामनन्ति ॥३२॥
चर्मासिचापशरवज्रपरश्वथाङ्ग-
शूलादिमध्यसृणिदण्डधरैश्च हस्तैः ।
पञ्चाननं धवलदंष्ट्रमगाधनेत्रं
त्वामञ्जनाभमरिभीषणमाश्रयामः ॥३३॥
हस्तैरभीवरपरश्वथकृष्णसार-
युक्तैश्चतुर्भिरभिशोभितमाननैश्च ।
त्वां पूजयन्निह सहस्रदलाब्जसंस्थं
वाञ्छां व्रजेद्दशभिरावरणैरुपेतम् ॥३४॥
काल्याद्याभिः परिवृततनुं शक्तिभिर्दिग्गताभि-
स्तन्मध्यस्थैः परिचिततनुं भीषणाद्यैश्च रन्ध्रैः ।
ब्राह्म्याद्याभिर्दिशि दिशि तनुं मातृभिर्लोकपालैः
साङ्गं ध्यायन् जपति सुमतिर्भूतले यः स धन्यः ॥३५॥
कृत्वा चक्रं रजोभिस्तव तदनुगुणैः कर्णिकाकेसराढ्यं
मध्ये च द्वादशारं कृतनियमविधिः षोडशारं च बाह्ये ।
मध्ये त्वां पूजयित्वा दिशि दिशि परितः केसरेष्वष्टशक्ती-
रिच्छादिद्वादशारेष्वथ यजति महास्त्राणि चत्वारि दिक्षु ॥३६॥
शेषारेष्वष्टरुन्द्रान्विदिगुदिततनून् भीषणाभीषणादीन्
बाह्येऽस्त्रैरात्मदिक्स्थैः सह कुलिशमुखैर्भौतिकादीनि चाष्टौ ।
तस्याधिव्याधिनाशः सकलमभिमतं शत्रुनाशश्च सद्यः
शान्तिः पुष्टिश्च विद्या धनमपरिमितं क्षेत्रसम्पत्तिरन्ते ॥३७॥
यस्त्वां युद्धोद्यताङ्गं यजति कृतमतिर्भास्कराद्यैर्गणेशैः
क्षेत्रेशैः कोणसंस्थैः त्रिदशपतिमुखैरष्टरुद्रैः परीतम् ।
आद्ये तज्ज्ञानरूपप्रभृतिभिरपरे वीरघोषादिरुद्रै-
स्तद्बाह्यस्थैश्चतुर्थद्रविणपतिमुखैः पञ्चमे कालमुख्यैः ॥३८॥
षष्ठे चोच्छुष्ममुख्यैरनिशमभिमुखैः सप्तमे विष्णुमुख्यै-
रन्यस्मिन् तीक्ष्णदंष्ट्रप्रभृतिभिरमरेशादिभिश्चापरस्मिन् ।
आधारे लोकपालैर्दिशिदिशि दशमे सायुधैः सेव्यमानं
भोगानास्वाद्य सर्वान् भुवि तनुविरमे मोक्षमाप्नोति सोऽयम् ॥३९॥
चक्रं स्रग्वज्रशक्तीर्डमरुपरशुघण्टाहिखड्गप्रखेटान्
बिभ्राणं दण्डपाशौ ध्वजनरशिरसी चापबाणौ भुजैश्च ।
दोर्भ्यां द्वाभ्यां महास्त्रं नियुतरविनिभं लूतमुण्डाहिभूषं
चार्काभं कुण्डलाढ्यं कुमतविहतये घोरनाथं भजामः ॥४०॥
विद्युन्मालानलाभं भुजगपरिवृतं भीषणं निम्ननेत्रं
शूलं पाशं च घण्टामनलमसिमहाखेटकौ प्रज्वलन्तौ ।
सव्येऽभीशक्तिचापान शरपरशुरुजा दक्षिणे घोरवक्त्रं
पार्श्वे घोरास्त्रमेवं नियमितमनसा संयजे सर्वसिद्ध्यै ॥४१॥
जप्त्वायुतमनूत्तममिष्टयुक्तं
हुत्वा सहस्रमपकृत्यमपाकरोति ।
सन्ध्यासु चाष्टसहितं शतमत्र जप्त्वा
ध्यायन् कुबेरसदृशं श्रियमेति मर्त्यः ॥४२॥
आधारनाभिहृदये च गले च तालु-
भ्रूमध्यमूर्ध्न्यखिलशक्तिपदेषु देवम् ।
तेजोमयं सरति यः क्रमशश्च मोक्षं
यो व्युत्क्रमेण स नरः पुनरेति भोगम् ॥४३॥
यद्वैभवं तव महास्त्रमहानुभावं
स्तोतुं न मन्त्रपतयस्तदशेषमीशाः ।
का शक्तिरत्र वद तादृशमीदृशानां
कश्चैकदेशगणको गणकीर्तिमेति ॥४४॥
एतामघोरास्त्रपदानुविद्धां
यः स्त्रोत्रमालां पठति त्रिसन्ध्यम् ।
निर्जित्यशत्रून् विगतामयोऽसौ
प्राप्नोत्यशेषानपि वाञ्छितार्थान् ॥४५॥
॥ इति श्रीअघोरस्तवः सम्पूर्णः ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।