गुरु कवच
अस्य श्रीबृहस्पति कवचमहा मन्त्रस्य, ईश्वर ऋषिः, अनुष्टुप् छन्दः, बृहस्पतिर्देवता, गं बीजं, श्रीं शक्तिः, क्लीं कीलकम्, बृहस्पति प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
॥ ध्यानम् ॥
अभीष्टफलदं वन्दे सर्वज्ञं सुरपूजितम् । अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ॥
॥अथ बृहस्पति कवचम् ॥
बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः । कर्णौ सुरगुरुः पातु नेत्रे मेऽभीष्टदायकः ॥१॥
जिह्वां पातु सुराचार्यः नासं मे वेदपारगः । मुखं मे पातु सर्वज्ञः कण्ठं मे देवतागुरुः ॥२॥
भुजावाङ्गीरसः पातु करौ पातु शुभप्रदः । स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥३॥
नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः । कटिं पातु जगद्वन्द्यः ऊरू मे पातु वाक्पतिः ॥४॥
जानुजङ्घे सुराचार्यः पादौ विश्वात्मकः सदा । अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः ॥ ५॥
इत्येतत्कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः । सर्वान् कामानवाप्नोति सर्वत्र विजयी भवेत् ॥
॥ इति श्री बृहस्पति कवचम् ॥
बृहस्पति स्तोत्र पाठ
पीताम्बरः पीतवपुः किरीटी चतुर्भुजो देवगुरुः प्रशान्तः ।
तथाक्षऽसूत्रं च कमण्डलुञ्च दण्डञ्च बिभ्रद्वरदोऽस्तु मह्यं॥
नम: सुरेन्द्रवन्द्याय देवाचार्याय ते नमः । नमस्त्वनन्तसामर्थ्यं देवासिद्धान्तपारग ॥
सदानन्द नमस्तेऽस्तु नम: पीडाहराय च । नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ॥
नमोऽद्वितीयरूपाय लम्बकूर्चाय ते नमः । नमः प्रहृष्टनेत्राय विप्राणां पतये नमः ॥
नमो भार्गवशिष्याय विपन्नहितकारकः । नमस्ते सुरसैन्याय विपन्नत्राणहेतवे ॥
विषमस्थस्तथा नृणां सर्वकष्टप्रणाशनम । प्रत्यहं तु पठेद्यो वै तस्य कामफलप्रदं ॥
॥ इति मन्त्रमहार्णवे बृहस्पतिस्तोत्रम ॥
॥ बृहस्पति अष्टोत्तरशत नाम स्तोत्रं ॥
गुरुर्गुणवरो गोप्ता गोचरो गोपतिप्रियः । गुणी गुणवतां श्रेष्ठो गुरूणां गुरुरव्ययः ॥१॥
जेता जयन्तो जयदो जीवोऽनन्तो जयावहः। आङ्गीरसोऽध्वरासक्तो विविक्तोऽध्वरकृत्परः ॥२॥
वाचस्पतिर्वशी वश्यो वरिष्ठो वाग्विचक्षणः । चित्तशुद्धिकरः श्रीमान् चैत्रः चित्रशिखण्डिजः ॥३॥
बृहद्रथो बृहद्भानुर्बृहस्पतिरभीष्टदः । सुराचार्यः सुराराध्यः सुरकार्यहितङ्करः ॥४॥
गीर्वाणपोषको धन्यो गीष्पतिर्गिरिशोऽनघः । धीवरो धिषणो दिव्यभूषणो देवपूजितः ॥५॥
धनुर्धरो दैत्यहन्ता दयासारो दयाकरः । दारिद्र्यनाशको धन्यो दक्षिणायनसम्भवः ॥६॥
धनुर्मीनाधिपो देवो धनुर्बाणधरो हरिः । आङ्गीरसाब्जसञ्जातः आङ्गीरसकुलोद्भवः ॥७॥
सिन्धुदेशाधिपो धीमान् स्वर्णवर्णश्चतुर्भुजः । हेमाङ्गदो हेमवपुर्हेमभूषणभूषितः ॥८॥
पुष्यनाथः पुष्यरागमणिमण्डलमण्डितः । काशपुष्पसमानाभः कलिदोषनिवारकः ॥९॥
इन्द्रादिदेवोदेवेशो देवताभीष्टदायकः । असमानबलः सत्त्वगुणसम्पद्विभासुरः ॥१०॥
भूसुराभीष्टदो भूरियशः पुण्यविवर्धनः । धर्मरूपो धनाध्यक्षो धनदो धर्मपालनः ॥११॥
सर्ववेदार्थतत्त्वज्ञः सर्वापद्विनिवारकः । सर्वपापप्रशमनः स्वमतानुगतामरः ॥१२॥
ऋग्वेदपारगो ऋक्षराशिमार्गप्रचारकः । सदानन्दः सत्यसन्धः सत्यसङ्कल्पमानसः ॥१३॥
सर्वागमज्ञः सर्वज्ञः सर्ववेदान्तविद्वरः । ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ॥१४॥
समानाधिकनिर्मुक्तः सर्वलोकवशंवदः । ससुरासुरगन्धर्व वन्दितः सत्यभाषणः ॥१५॥
नमः सुरेन्द्रवन्द्याय देवाचार्याय ते नमः । नमस्तेऽनन्तसामर्थ्य वेदसिद्धान्तपारगः ॥१६॥
सदानन्द नमस्तेऽस्तु नमः पीडाहराय च । नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ॥१७॥
नमोऽद्वितीयरूपाय लम्बकूर्चाय ते नमः । नमः प्रहृष्टनेत्राय विप्राणां पतये नमः ॥१८॥
नमो भार्गवशिष्याय विपन्नहितकारिणे । नमस्ते सुरसैन्यानां विपत्तित्राणहेतवे ॥१९॥
बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः । लोकत्रयगुरुः श्रीमान् सर्वगः सर्वतोविभुः ॥२०॥
सर्वेशः सर्वदातुष्टः सर्वदः सर्वपूजितः । अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता जगत्पिता ॥२१॥
विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः । भूर्भुवोधनदाता च भर्ताजीवो महाबलः ॥२२॥
बृहस्पतिः काश्यपेयो दयावान् शुभलक्षणः । अभीष्टफलदः श्रीमान् शुभग्रह नमोऽस्तु ते ॥२३॥
बृहस्पतिः सुराचार्यो देवासुरसुपूजितः । आचार्योदानवारिश्च सुरमन्त्री पुरोहितः ॥२४॥
कालज्ञः कालृग्वेत्ता चित्तगश्च प्रजापतिः । विष्णुः कृष्णः सदासूक्ष्मः प्रतिदेवोज्ज्वलग्रहः ॥२५॥
॥ इति श्री बृहस्पति अष्टोत्तरशतनाम स्तोत्रम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।