भगवान शिव और पार्वती का एकत्व होने पर जो स्वरूप बनता है उसे अर्द्धनारीश्वर कहते हैं। भगवान शिव को माता पार्वती इतनी प्रिय हैं कि उन्हें भिन्न समझना ही नहीं चाहिये क्योंकि इसी कारण से भगवान शिव ने पार्वती को पृथक रहने ही नहीं दिया एक हो गये। भगवान शिव की उपासना में अर्द्धनारीश्वर स्तोत्र का पाठ करना विशेष फलदायक होता है। यहां अनेकों अर्द्धनारीश्वर स्तोत्र (ardhnarishwar stotra) संस्कृत में दिया गया है जिसका भगवान शिव की उपासना में पाठ किया जा सकता है।
पढ़िये शिवपार्वती का प्रिय अर्द्धनारीश्वर स्तोत्र – ardhnarishwar stotra
यहां सर्वप्रथम शंकराचार्य विरचित अर्द्धनारीनटेश्वर स्तोत्र दिया गया है जिसके अनेकों पद अर्द्धनारीश्वराष्टक से भी मिलते हैं। तदनन्तर शिवपुराण में ब्रह्माकृत स्तोत्र है जिसे शिवाशिव स्तोत्र भी कहा जाता है अर्थात अर्द्धनारीश्वर स्तोत्र है तदनन्तर एक अन्य महत्वपूर्ण अर्द्धनारीश्वर स्तुति भी दी गयी है।
अर्द्धनारीनटेश्वर स्तोत्र
चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥१॥
कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय ।
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥२॥
झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय ।
हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥३॥
विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥४॥
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय ।
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥५॥
अम्भोधरश्यामलकुन्तलायै तडित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥६॥
प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय ।
जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥७॥
प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥८॥
एतत्पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥९॥
॥ इति श्रीमच्छंकरभगवतः कृतौ अर्धनारीश्वरस्तोत्रम् संपूर्णम् ॥
अर्द्धनारीश्वर स्तोत्र
ब्रह्मोवाच
जय देव महादेव जयेश्वर महेश्वर ।
जय सर्वगुणश्रेष्ठ जय सर्वसुराधिप ॥१॥
जय प्रकृतिकल्याणि जय प्रकृतिनायिके ।
जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥२॥
जयामोघमहामाय जयामोघमनोरथ ।
जयामोघमहालील जयामोघमहाबल ॥३॥
जय विश्वजगन्मातर्जय विश्वजगन्मये ।
जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥४॥
जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय ।
जय शाश्वतिकाकार जयशाश्वतिकानुग ॥५॥
जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि ।
जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥६॥
जयावलोकनायत्तजगत्कारणबृंहण ।
जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तमौक्तिक ॥७॥
जय देवाद्यविज्ञेयस्वात्मसूक्ष्मदृशोज्ज्वले ।
जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे ॥८॥
जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय ।
जयासुरशिरोनिष्ठश्रेष्ठानुगकदम्बक ॥९॥
जयोपाश्रितसंरक्षां संविधानपटीयसी ।
जयोन्मूलितसंसारविषवृक्षाङ्कुरोद्गमे ॥१०॥
जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृम्भिणे ।
जय विश्वबहिर्भूत निरस्तपरवैभव ॥११॥
जय प्रणीतपञ्चार्थप्रयोगपरमामृत ।
जय पञ्चार्थविज्ञानसुधास्तोत्रस्वरूपिणे ॥१२॥
जयति घोरसंसारमहारोगभिषग्वर ।
जयानादिमलाज्ञानतमःपटलचन्द्रिके ॥१३॥
जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि ।
जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ॥१४॥
जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक ।
जय प्रचुरदिव्याङ्ग जय प्रार्थितदायिनि ॥१५॥
क्व देव ते परं धाम क्व च तुच्छं च नो वचः ।
तथापि भगवन् भक्त्या प्रलपन्तं क्षमस्व माम् ॥१६॥
विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः ।
नमश्चकार रुद्राय रुद्राण्यै च मुहुर्मुहुः ॥१७॥
इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् ।
अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ॥१८॥
य इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया ।
महत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥१९॥
सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् ।
नरवरयुवतीवपुर्धराभ्यां सततमहं प्रणतोऽस्मि शङ्कराभ्याम् ॥२०॥
॥ इति श्रीशैवे महापुराणे वायवीयसंहितायां पूर्वभागे
शिवशिवास्तुतिवर्णनं नाम पञ्चदशाध्याये अर्द्धनारीश्वरस्तोत्रं सम्पूर्णम् ॥
अर्द्धनारीश्वर स्तुति
वन्देमह्यमलमयूखमौलिरत्नं
देवस्य प्रकटितसर्वमङ्गलाख्यम् ।
अन्योन्यं सदृशमहीनकङ्कणाङ्कं
देहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥१॥
तद्वन्द्वे गिरिपतिपुत्रिकार्धमिश्रं
श्रैकण्ठं वपुरपुनर्भवाय यत्र ।
वक्त्रेन्दोर्घटयति खण्डितस्य देव्या
साधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥२॥
एकत्र स्फटिकशिलामलं यदर्धे
प्रत्यग्रद्रुतकनकोज्ज्वलं परत्र ।
बालार्कद्युतिभरपिञ्जरैकभाग-
प्रालेयक्षितिधरशृङ्गभङ्गिमेति ॥३॥
यत्रैकं चकितकुरङ्गभङ्गि चक्षुः
प्रोन्मीलत्कुचकलशोपशोभि वक्षः ।
मध्यं च ऋशिमसमेतमुत्तमाङ्गं
भृङ्गालीरुचिकचसञ्चयाञ्चितं च ॥४॥
स्राभोगं घननिबिडं नितम्बबिम्बं
पादोऽपि स्फुटमणिनूपुराभिरामः ।
आलोक्य क्षणमिति नन्दिनोऽप्यकस्मा-
दाश्चर्यं परमुदभूदभूतपूर्वम् ॥५॥
यत्रार्धं घटयति भूरिभूतिशुभ्रं
चन्द्रांशुच्छुरितकुबेरशैलशोभाम् ।
अर्धं च प्रणिहितकुङ्कुमाङ्गरागं
पर्यस्तारुणरुचिकाञ्चनाद्रिमुद्राम् ॥६॥
यत्कान्तिं दधदपि काञ्चनाभिरामां
प्रोन्मीलद्भुजगशुभाङ्गदोपगूढम् ।
बिभ्राणं मुकुटमुपोढचारुचन्द्रं
सन्धत्ते सपदि परस्परोपमानम् ॥७॥
आश्चर्यं तव दयिते हितं विधातुं
प्रागल्भ्यं किमपि भवोपतापभाजाम् ।
अन्योन्यं गतमिति वाक्यमेकवक्त्र-
प्रोद्भिन्नं घटयति यत्र सामरस्यम् ॥८॥
प्रत्यङ्गं घनपरिरम्भतः प्रकम्पं
वामार्धं भुजगभयादिवैति यत्र ।
यत्रापि स्फुटपुलकं चकास्ति शीत-
स्वःसिन्धुस्नपिततयेव दक्षिणार्धम् ॥९॥
एकत्र स्फुरति भुजङ्गभोगभङ्गि-
र्नीलेन्दीवरदलमालिका परत्र ।
एकत्र प्रथयति भास्मनोऽङ्गरागः
शुभ्रत्वं मलयजरञ्जनं परत्र ॥१०॥
एकत्रार्पयति विषं गलस्य कार्ष्ण्यं
कस्तूरीकृतमपि पुण्ड्रकं परत्र ।
एकत्र द्युतिरमलास्थिमालिकाना-
मन्यत्र प्रसरति मौक्तिकावलीनाम् ॥११॥
एकत्र स्रुतरुधिरा करीन्द्रकृत्तिः
कौसुम्भं वसनमनश्वरं परत्र ।
इत्यादीन्यपि हि परस्परं विरुद्धा-
न्येकत्वं दधति विचित्रधाम्नि यत्र ॥१२॥
दन्तानां सितिमनि कज्जलप्रयुक्ते
मालिन्येऽप्यलिकविलोचनस्य यत्र ।
रक्तत्वे करचरणाधरस्य चान्यो
नान्योन्यं समजनि नूतनो विशेषः ॥१३॥
कण्ठस्य भ्रमरनिभा विभार्धभागं
मुक्त्वा किं स्थितिमकरोच्छिरोरुहार्धे ।
अर्धं वा कनकसदृग्रुचिः कचानां
सन्त्यज्य न्यविशत किं गलैकदेशे ॥१४॥
सौवर्णः करकमले यथैव वामे
सव्येऽपि ध्रुवमभवत्तथैव कुम्भः ।
क्रीडैकप्रसृतमतिर्विभुर्बिभर्ति
स्वाच्छन्द्यादुरसि तमेव नूनमेनम् ॥१५॥
यत्रासीज्जगदखिलं युगावसाने
पूर्णत्वं यदुचितमत्र मध्यभागे ।
संरम्भाद्गलितमदस्तदेव नूनं
विश्रान्तं घनकठिने नितम्बबिम्बे ॥१६॥
इत्यादीन्प्रविदधुरेव यत्र ताव-
त्सङ्कल्पान्प्रथमसमागमे गणेन्द्राः ।
यावत्स प्रणतिविधौ पदारविन्दं
भृङ्गीशः परिहरति स्म नाम्बिकायाः ॥१७॥
किमयं शिवः किमु शिवाथ शिवा-
विति यत्र वन्दनविधौ भवति ।
अविभाव्यमेव वचनं विदुषा-
मविभाव्यमेव वचनं विदुषाम् ॥१८॥
एकः स्तनः समुचितोन्नतिरेकमक्षि
लक्ष्याञ्जनं तनुरपि क्रशिमान्वितेति ।
लिङ्गैस्त्रिभिर्व्यवसिते सविभक्तिकेऽपि
यत्राव्ययत्वमविखण्डितमेव भाति ॥१९॥
यत्र ध्रुवं हृदय एव यदैक्यमासी-
द्वाक्काययोरपि पुनः पतितं तदेव ।
यस्मात्सतां हृदि यदेव तदेव वाचि
यच्चैव वाचि करणेऽप्युचितं तदेव ॥२०॥
कान्ते शिवे त्वयि विरूढमिदं मनश्च
मूर्तिश्च मे हृदयसम्मददायिनीति ।
अन्योन्यमभ्यभिहितं वितनोति यत्र
साधारणस्मितमनोरमतां मुखस्य ॥२१॥
उद्यन्निरुत्तरपरस्परसामरस्य-
सम्भावनव्यसनिनोरनवद्यहृद्यम् ।
अद्वैतमुत्तमचमत्कृतिसाधनं त-
द्युष्माकमस्तु शिवयोः शिवयोजनाय ॥२२॥
लक्ष्याण्यलक्ष्याण्यपरत्र यत्र विलक्षणान्येव हि लक्षणानि
साहित्यमत्यद्भुतमीशयोस्तन्न कस्य रोमाञ्चमुदञ्चयेत ॥२३॥
जूटाहेर्मुकुटेन्द्रनीलरुचिभिः श्यामं दधत्यूर्ध्वगं
भागं वह्निशिखापिशङ्गमधरं मध्ये सुधाच्छच्छविः ।
धत्ते शक्रधनुःश्रियं प्रतिमिता यत्रेन्दुलेखानृजु-
र्युष्माकं स पयोधरो भगवतो हर्षामृतं वर्षतु ॥२४॥
॥ इत्यर्द्धनारीश्वरस्तुतिः सम्पूर्णा ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।