मां बगलामुखी दस महाविद्याओं में से आठवीं महाविद्या हैं और इन्हें माता पीताम्बरा भी कहते हैं। यह माता पार्वती का उग्र स्वरूप हैं और सम्पूर्ण सृष्टि में जो भी तरंग हैं वो इन्हीं से हैं। मां बगलामुखी भोग और मोक्ष दोनों प्रदान करने वाली देवी है इनकी आराधना के पूर्व हरिद्रा गणपती की आराधना विशेष फलदायक कही गयी है। मां बगलामुखी (Baglamukhi) की साधना में पवित्रता और पित द्रव्यों की विशेष आवश्यकता होती है। यहां बगलामुखी स्तोत्र (Baglamukhi Stotra) संस्कृत में दिया गया है।
यहां पढ़ें मां बगलामुखी को प्रसन्न करने वाले स्तोत्र संस्कृत में – Baglamukhi Stotra
यहां सर्वप्रथम मां बगलामुखी के ध्यान मंत्र तदनंतर रुद्रयामलतन्त्रोक्त बगलामुखी स्तोत्र, श्रीबगलापञ्जर स्तोत्र दिया गया है। सभी स्तोत्र संस्कृत में हैं।
॥ बगलामुखी ध्यानम् ॥
मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां
सिंहासनोपरि गतां परिवीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीं नमामि धृतमुद्गरवैरिजिह्वाम् ॥१॥
जिह्वाग्रमादाय करेण देवीं
वामेन शत्रून्परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन
पीताम्बराढ्यां द्विभुजां नमामि ॥२॥
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोल्लासिनीं
हेमाभाङ्गरुचिं शशाङ्कमुकुटां सच्चम्पकस्रग्युताम् ।
हस्तैर्मुद्गरपाशवज्ररशनाः सम्बिभ्रतीं भूषणैः
व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तये ॥३॥
॥ इति बगलामुखी अथवा पीताम्बरी ध्यानम् ॥
॥ रुद्रयामलतन्त्रोक्त बगलामुखी स्तोत्र ॥
चलत्कनककुण्डलोल्लसितचारुगण्डस्थलीं
लसत्कनकचम्पकद्युतिमदिन्दुबिम्बाननाम् ।
गदाहतविपक्षकां कलितलोलजिह्वांचलां
स्मरामि बगलामुखीं विमुखवाङ्मनस्स्तम्भिनीम् ॥१॥
पीयूषोदधिमध्यचारुविलद्रक्तोत्पले मण्डपे
सत्सिंहासनमौलिपातितरिपुं प्रेतासनाध्यासिनीम् ।
स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदां विभ्रतीं
इत्थं ध्यायति यान्ति तस्य सहसा सद्योऽथ सर्वापदः ॥२॥
देवि त्वच्चरणाम्बुजार्चनकृते यः पीतपुष्पाञ्जलीम्
भक्त्या वामकरे निधाय च मनुं मन्त्री मनोज्ञाक्षरम् ।
पीठध्यानपरोऽथ कुम्भकवशाद्बीजं स्मरेत्पार्थिवं
तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत्तत्क्षणात् ॥३॥
वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरः शीतति
क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः खञ्जति ।
गर्वी खर्वति सर्वविच्च जडति त्वन्मन्त्रिणा मन्त्रितः
श्रीर्नित्ये बगलामुखि प्रतिदिनं कल्याणि तुभ्यं नमः ॥४॥
मन्त्रस्तावदलं विपक्षदलने स्तोत्रं पवित्रं च ते
यन्त्रं वादिनियन्त्रणं त्रिजगतां जैत्रं च चित्रं च ते ।
मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे
त्वन्नामग्रहणेन संसदि मुखे स्तम्भो भवेद्वादिनाम् ॥५॥
दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं
भूभृत्सन्दमनं चलन्मृगदृशां चेतःसमाकर्षणम् ।
सौभाग्यैकनिकेतनं समदृशः कारुण्यपूर्णेक्षणम्
मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥६॥
मातर्भञ्जय मद्विपक्षवदनं जिह्वां च सङ्कीलय
ब्राह्मीं मुद्रय दैत्यदेवधिषणामुग्रां गतिं स्तंभय ।
शत्रूंश्चूर्णय देवि तीक्ष्णगदया गौराङ्गि पीताम्बरे
विघ्नौघं बगले हर प्रणमतां कारुण्यपूर्णेक्षणे ॥७॥
मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये
श्रीविद्ये समये महेशि बगले कामेशि वामे रमे ।
मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे
दासोऽहं शरणागतः करुणया विश्वेश्वरि त्राहि माम् ॥८॥
संरम्भे चौरसङ्घे प्रहरणसमये बन्धने व्याधिमध्ये
विद्यावादे विवादे प्रकुपितनृपतौ दिव्यकाले निशायाम् ।
वश्ये वा स्तम्भने वा रिपुवधसमये निर्जने वा वने वा
गच्छंस्तिष्ठंस्त्रिकालं यदि पठति शिवं प्राप्नुयादाशु धीरः ॥९॥
त्वं विद्या परमा त्रिलोकजननी विघ्नौघसंछेदिनी
योषित्कर्षणकारिणी जनमनः सम्मोहसन्दायिनी ।
स्तम्भोत्सारणकारिणी पशुमनः सम्मोहसन्दायिनी
जिह्वाकीलनभैरवी विजयते ब्रह्मादिमन्त्रो यथा ॥१०॥
विद्या लक्ष्मीर्नित्यसौभाग्यमायुः पुत्रैः पौत्रैः सर्वसाम्राज्यसिद्धिः ।
मानं भोगो वश्यमारोग्यसौख्यं प्राप्तं तत्तद्भूतलेऽस्मिन्नरेण ॥११॥
त्वत्कृते जपसन्नाहं गदितं परमेश्वरि ।
दुष्टानां निग्रहार्थाय तद्गृहाण नमोऽस्तु ते ॥१२॥
पीताम्बरां च द्विभुजां त्रिनेत्रां गात्रकोमलाम् ।
शिलामुद्गरहस्तां च स्मरे तां बगलामुखीम् ॥१३॥
ब्रह्मास्त्रमिति विख्यातं त्रिषु लोकेषु विश्रुतम् ।
गुरुभक्ताय दातव्यं न देयं यस्य कस्यचित् ॥१४॥
नित्यं स्तोत्रमिदं पवित्रमिह यो देव्याः पठत्यादराद्
धृत्वा यन्त्रमिदं तथैव समरे बाहौ करे वा गले ।
राजानोऽप्यरयो मदान्धकरिणः सर्पा मृगेन्द्रादिकास्ते
वै यान्ति विमोहिता रिपुगणा लक्ष्मीः स्थिरा सिद्धयः ॥१५॥
॥ इति श्रीरुद्रयामले तन्त्रे श्रीबगलामुखीस्तोत्रं समाप्तम् ॥
॥ श्रीबगलापञ्जर स्तोत्र अथवा श्रीपीताम्बरापञ्जर स्तोत्र ॥
सूत उवाच
सहस्रादित्यसङ्काशं शिवं साम्बं सनातनम् ।
प्रणम्य नारदः प्राह विनम्रो नतकन्धरः ॥१॥
श्रीनारद उवाच
भगवन् साम्ब तत्त्वज्ञ सर्वदुःखापहारक ।
श्रीमत्पीताम्बरादेव्याः पञ्जरं पुण्यदं सताम् ॥२॥
प्रकाशय विभो नाथ कृपां कृत्वा ममोपरि ।
यद्यहं तव पादाब्जधूलिधूसरितोऽभवत् ॥३॥
विनियोग : अस्य श्रीमद्बगलामुखी पीताम्बरा पञ्जररूपस्तोत्रमन्त्रस्य भगवान् नारदऋषिः, अनुष्टुप्छन्दः, जगद्वश्यकरी श्रीपीताम्बरा बगलामुखी देवता, ह्लीं बीजं, स्वाहा शक्तिः, क्लीं कीलकं, मम विपक्षपरसैन्यमन्त्र-तन्त्र यन्त्रादिकृत्यक्षयार्थं श्रीमत्पीताम्बरा बगलामुखी देवताप्रीत्यर्थे च जपे विनियोगः ॥
॥ ऋष्यादि न्यासः ॥
भगवान् नारदऋषये नमः शिरसि ॥
अनुष्टुप्छन्दसे नमः मुखे ॥
जगद्वश्यकरी श्रीपीताम्बरा बगलामुखी देवतायै नमः हृदये ॥
ह्लीं बीजाय नमः दक्षिणस्तने स्वाहा ॥ शक्त्यै नमः वामस्तने ॥
क्लीं कीलकाय नमः नाभौ ॥
विनियोग : मम विपक्षपरसैन्यमन्त्रतन्त्रयन्त्रादिकृत्यक्षयार्थं श्रीमत्पीताम्बरा बगलादेव्याः प्रीतये जपे विनियोगः ॥
करसम्पुटेन करमूलेन करशुद्धिः । ह्लामिति षट्दीर्घेण षडङ्गः । मूलेन व्यापकन्यासं कुर्यात् ॥
॥ करन्यासः ॥
ह्लां अङ्गुष्ठाभ्यां नमः ॥
ह्लीं तर्जनीभ्यां स्वाहा ॥
ह्लूं मध्यमाभ्यां वषट् ॥
ह्लैं अनामिकाभ्यां हुम् ॥
ह्लौं कनिष्ठिकाभ्यां वौषट् ॥
ह्लः करतलकरपृष्ठाभ्यां फट् ॥
॥ अङ्गन्यासः ॥
ह्लां हृदयाय नमः ॥
ह्लीं शिरसे स्वाहा ॥
ह्लूं शिखायै वषट् ॥
ह्लैं कवचाय हुम् ॥
ह्लौ नेत्रत्रयाय वौषट् ॥
ह्लः अस्त्राय फट् ॥
॥ व्यापकन्यासः ॥
ॐ ह्लीं अङ्गुष्ठाभ्यां नमः ॥
ॐ बगलामुखी तर्जनीभ्यां स्वाहा ॥
ॐ सर्वदुष्टानां मध्यमाभ्यां वषट् ॥
ॐ वाचं मुखं पदं स्तम्भय अनामिकाभ्यां हुम् ॥
ॐ जिह्वां कीलय कनिष्ठिकाभ्यां वौषट् ॥
ॐ बुद्धिं विनाशय ह्लीं ॐ स्वाहा करतलकरपृष्ठाभ्यां फट् ॥
॥ अङ्गन्यासः ॥
ॐ ह्लीं हृदयाय नमः ॥
ॐ बगलामुखि शिरसे स्वाहा ॥
ॐ सर्वदुष्टानां शिखायै वषट् ॥
ॐ वाचं मुखं पदं स्तम्भय कवचाय हुम् ॥
ॐ जिह्वां कीलय नेत्रत्रयाय वौषट् ॥
ॐ बुद्धिं विनाशय ह्लीं ॐ स्वाहा, अस्त्राय फट् ॥
॥ ध्यानम् ॥
मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीं स्मरामि धृतमुद्गरवैरिजिह्वाम् ॥
॥ इति ध्यात्वा मनसा सम्पूज्य, योनिमुद्रां एवं मुद्गरमुद्रां प्रदर्शय, ऋष्यादिन्यासं कृत्वा, पञ्जरं न्यस्येत्त् ॥
श्रीपीताम्बरायै नमः लं पृथिव्यात्मकं गन्धं परिकल्पयामि ।
श्रीपीताम्बरायै नमः हं आकाशात्मकं पुष्पं परिकल्पयामि ।
श्रीपीताम्बरायै नमः यं वायव्यात्मकं धूपं परिकल्पयामि ।
श्रीपीताम्बरायै नमः वं अमृतात्मकं नैवेद्यं परिकल्पयामि ॥
॥ अथ पञ्जरस्तोत्रम् ॥
श्रीशिव उवाच पञ्जरं तत्प्रवक्ष्यामि देव्याः पापप्रणाशनम् ।
यं प्रविश्य च बाधन्ते बाणैरपि नराः क्वचित् ॥१॥
ॐ ऐं ह्लीं श्रीं श्रीमत्पीताम्बरादेवी बगला बुद्धिवर्द्धिनी ।
पातु मामनिशं साक्षात् सहस्रार्कसमद्युतिः ॥२॥
ॐ ऐं ह्लीं श्रीं शिखादिपादपर्यन्तं वज्रपञ्जरधारिणी ।
ब्रह्मास्त्रसंज्ञा या देवी पीताम्बराविभूषिता ॥३॥
ॐ ऐं ह्लीं श्रीं श्रीबगला ह्यवत्वत्र चोर्ध्वभागं महेश्वरी ।
कामाङ्कुशा कला पातु बगला शास्त्रबोधिनी ॥४॥
ॐ ऐं ह्लीं श्रीं पीताम्बरा सहस्राक्षा ललाटं कामितार्थदा ।
पातु मां बगला नित्यं पीताम्बरसुधारिणी ॥५॥
ॐ ऐं ह्लीं श्रीं कर्णयोश्चैव युगपदातिरत्नप्रपूजिता ।
पातु मां बगलादेवी नासिकां मे गुणाकरा ॥६॥
ॐ ऐं ह्लीं श्रीं पीतपुष्पैः पीतवस्त्रैः पूजिता वेददायिनी ।
पातु मां बगला नित्यं ब्रह्मविष्ण्वादिसेविता ॥७॥
ॐ ऐं ह्लीं श्रीं पीताम्बरा प्रसन्नास्या नेत्रयोर्युगपद्भ्रुवौ ।
पातु मां बगला नित्यं बलदा पीतवस्त्रधृक् ॥८॥
ॐ ऐं ह्लीं श्रीं अधरोष्ठौ तथा दन्तान् जिह्वां च मुखगां मम ।
पातु मां बगलादेवी पीताम्बरसुधारिणी ॥९॥
ॐ ऐं ह्लीं श्रीं गले हस्ते तथा बाह्वोः युगपद्बुद्धिदासताम् ।
पातु मां बगलादेवी दिव्यस्रगनुलेपना ॥१०॥
ॐ ऐं ह्लीं श्रीं हृदये च स्तने नाभौ करावपि कृशोदरी ।
पातु मां बगला नित्यं पीतवस्त्रघनावृता ॥११॥
जङ्घायां च तथा चोर्वोर्गुल्फयोश्चातिवेगिनी ।
अनुक्तमपि यत्स्थानं त्वक्केशनखलोमकम् ॥१२॥
असृङ्मांसं तथास्थीनी सन्धयश्चापि मे परा ।
ताः सर्वा बगलादेवी रक्षेन्मे च मनोहरा ॥१३॥
॥ फलश्रुतिः ॥
इत्येतद्वरदं गोप्यं कलावपि विशेषतः ।
पञ्जरं बगलादेव्याः घोरदारिद्र्यनाशनम् ।
पञ्जरं यः पठेद्भक्त्या स विघ्नैर्नाभिभूतये ॥१४॥
अव्याहतगतिश्चास्य ब्रह्मविष्ण्वादिसत्पुरे ।
स्वर्गे मर्त्ये च पाताले नारयस्तं कदाचन ॥१५॥
न बाधन्ते नरव्याघ्रं पञ्जरस्थं कदाचन ।
अतो भक्तैः कौलिकैश्च स्वरक्षार्थं सदैव हि ॥१६॥
पठनीयं प्रयत्नेन सर्वानर्थविनाशनम् ।
महादारिद्र्यशमनं सर्वमाङ्गल्यवर्धनम् ॥१७॥
विद्याविनयसत्सौख्यं महासिद्धिकरं परम् ।
इदं ब्रह्मास्त्रविद्यायाः पञ्जरं साधु गोपितम् ॥१८॥
पठेत्स्मरेद्ध्यानसंस्थः स जयेन्मरणं नरः ।
यः पञ्जरं प्रविश्यैव मन्त्रं जपति वै भुवि ॥१९॥
कौलिकोऽकौलिको वापि व्यासवद्विचरेद्भुवि ।
चन्द्रसूर्यसमो भूत्वा वसेत्कल्पायुतं दिवि ॥२०॥
श्रीसूत उवाच
इति कथितमशेषं श्रेयसामादिबीजम् ।
भवशतदुरितघ्नं ध्वस्तमोहान्धकारम् ।
स्मरणमतिशयेन प्राप्तिरेवात्र मर्त्यः ।
यदि विशति सदा वै पञ्जरं पण्डितः स्यात् ॥२१॥
॥ इति परमरहस्यातिरहस्ये श्रीपीताम्बरापञ्जरस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।