अष्टक स्तोत्र विशेष महत्वपूर्ण होता है यह तो हम जानते हैं किन्तु भगवान परशुराम के अष्टक स्तोत्रों को ढूंढना चाहें तो बड़ी कठिनता होती है और इसमें यहां आपको सहयोग मिलता है। यहां श्रीपरशुरामाष्टक और श्रीमद्दिव्यपरशुरामाष्टकं दोनों परशुराम अष्टकं (parashuram ashtakam) संस्कृत में दिया गया है।
परशुराम अष्टकं – parashuram ashtakam
शुभ्रदेहं सदा क्रोधरक्तेक्षणम्
भक्तपालं कृपालुं कृपावारिधिम्
विप्रवंशावतंसं धनुर्धारिणम्
भव्ययज्ञोपवीतं कलाकारिणम्
यस्य हस्ते कुठारं महातीक्ष्णकम्
रेणुकानन्दनं जामदग्न्यं भजे ॥१॥
सौम्यरुपं मनोज्ञं सुरैर्वन्दितम्
जन्मतः ब्रह्मचारिव्रते सुस्थिरम्
पूर्णतेजस्विनं योगयोगीश्वरम्
पापसन्तापरोगादिसंहारिणम्
दिव्यभव्यात्मकं शत्रुसंहारकम्
रेणुकानन्दनं जामदग्न्यं भजे ॥२॥
ऋद्धिसिद्धिप्रदाता विधाता भुवो
ज्ञानविज्ञानदाता प्रदाता सुखम्
विश्वधाता सुत्राताऽखिलं विष्टपम्
तत्त्वज्ञाता सदा पातु माम् निर्बलम्
पूज्यमानं निशानाथभासं विभुम्
रेणुकानन्दनं जामदग्न्यं भजे ॥३॥
दुःख दारिद्र्यदावाग्नये तोयदम्
बुद्धिजाड्यं विनाशाय चैतन्यदम्
वित्तमैश्वर्यदानाय वित्तेश्वरम्
सर्वशक्तिप्रदानाय लक्ष्मीपतिम्
मङ्गलं ज्ञानगम्यं जगत्पालकम्
रेणुकानन्दनं जामदग्न्यं भजे ॥४॥
यश्च हन्ता सहस्रार्जुनं हैहयम्
त्रैगुणं सप्तकृत्वा महाक्रोधनैः
दुष्टशून्या धरा येन सत्यं कृता
दिव्यदेहं दयादानदेवं भजे
घोररूपं महातेजसं वीरकम्
रेणुकानन्दनं जामदग्न्यं भजे ॥५॥
मारयित्वा महादुष्ट भूपालकान्
येन शोणेन कुण्डेकृतं तर्पणम्
येन शोणीकृता शोणनाम्नी नदी
स्वस्य देशस्य मूढा हताः द्रोहिणः
स्वस्य राष्ट्रस्य शुद्धिःकृता शोभना
रेणुकानन्दनं जामदग्न्यं भजे ॥६॥
दीनत्राता प्रभो पाहि माम् पालक!
रक्ष संसाररक्षाविधौ दक्षक!
देहि संमोहनी भाविनी पावनी
स्वीय पादारविन्दस्य सेवा परा
पूर्णमारुण्यरूपं परं मञ्जुलम्
रेणुकानन्दनं जामदग्न्यं भजे ॥७॥
ये जयोद्घोषकाः पादसम्पूजकाः
सत्वरं वाञ्छितं ते लभन्ते नराः
देहगेहादिसौख्यं परं प्राप्य वै
दिव्यलोकं तथान्ते प्रियं यान्ति ते
भक्तसंरक्षकं विश्वसम्पालकम्
रेणुकानन्दनं जामदग्न्यं भजे ॥८॥
॥ इति श्रीपरशुरामाष्टकं सम्पूर्णम् ॥
श्रीपरशुरामाष्टक स्तोत्र – 2 श्रीमद्दिव्यपरशुरामाष्टकं
ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं
नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् ।
केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं
परशुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥१॥
अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं
वेदरूपमनामयं विभुमच्युतं परमेश्वरम् ।
हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं
परशुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥२॥
रैणुकेयमहीनसत्वकमव्ययं सुजनार्चितं
विक्रमाढ्यमिनाब्जनेत्रकमब्जशार्ङ्गगदाधरम् ।
छत्रिताहिमशेषविद्यगमष्टमूर्तिमनाश्रयं
परशुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥३॥
बाहुजान्वयवारणाङ्कुशमर्वकण्ठमनुत्तमं
सर्वभूतदयापरं शिवमब्धिशायिनमौर्वजम् ।
भक्तशत्रुजनार्दनं निरयार्दनं कुजनार्दनं
परशुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥४॥
जम्भयज्ञविनाशकञ्च त्रिविक्रमं दनुजान्तकं
निर्विकारमगोचरं नरसिंहरूपमनर्दहम् ।
वेदभद्रपदानुसारिणमिन्दिराधिपमिष्टदं
परशुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥५॥
निर्जरं गरुडध्वजं धरणीश्वरं परमोददं
सर्वदेवमहर्षिभूसुरगीतरूपमरूपकम् ।
भूमतापसवेषधारिणमद्रिशञ्च महामहं
परशुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥६॥
सामलोलमभद्रनाशकमादिमूर्तिमिलासुरं
सर्वतोमुखमक्षिकर्षकमार्यदुःखहरङ्कलौ ।
वेङ्कटेश्वररूपकं निजभक्तपालनदीक्षितं
परशुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥७॥
दिव्यविग्रहधारिणं निखिलाधिपं परमं महा-
वैरिसूदनपण्डितं गिरिजातपूजितरूपकम् ।
बाहुलेयकुगर्वहारकमाश्रितावळितारकं
परशुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥८॥
परशुरामाष्टकमिदं त्रिसन्ध्यं यः पठेन्नरः
परशुरामकृपासारं सत्यं प्राप्नोति सत्वरम् ॥
॥ इति श्रीपूसपाटि रङ्गनायकामात्य भार्गवर्षिकृत श्रीमद्दिव्यपरशुरामाष्टकं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।