क्या आपको भगवान परशुराम के स्तोत्र ढूंढ रहे हैं यदि हां तो यहां आपको दो परशुराम स्तोत्र मिलेगा। हमें भगवान परशुराम की अराधना में इनके स्तोत्र की भी आवश्यकता होती है और यहां दो परशुराम स्तोत्र (parashuram stotra) दिया गया है।
परशुराम स्तोत्र – parashuram stotra
श्रीमद्भक्तमनोऽम्बुजातभ्रमरं स्मेराननं चिन्मयं
नानारूपधरं हरिं निरुपमं नारायणं शङ्करम् ।
श्रीमद्भार्गववंशवार्धिशशिनं श्रीरेणुकापुत्रकं
सर्वाम्नायसुसारमार्यविनुतं रामं भजे भार्गवम् ॥१॥
वैकुण्ठं परमेश्वरार्चितपदं भव्यात्मकं चक्रिणं
पद्माक्षं श्रितवारसौरथरजं ब्रह्माण्डसव्यापिनम् ।
क्षीराम्भोनिधिशायिनं कुनृपहं श्रीरेणुकासुप्रजं
रम्यं भीमपरश्वधिं धरणिपं रामं भजे भार्गवम् ॥२॥
नित्यं राक्षसवंशनाशनकरं निर्वाणसन्धायकं
माहिष्मत्यधिनाथदाननिपुणं महिष्मतीदाहकम् ।
दूराड्वंशदवानलं शिवकरं दुर्वारभाषाप्रदं
सत्यं भूमविपश्चितं गुणनिधिं ध्यायामि आ?र्चीकजम् ॥३॥
ब्रह्मक्षात्रमयं महास्मृतिमयं गम्भीरभाषामयं
सत्कारुण्यमयं सदाशिवमयं सच्छिष्यभाषामयम् ।
ज्ञानानन्दमयं भयानकमयं सच्छौर्यभूषामयं
नानावादसुधामयं कविमयं श्रीरैणुकेयम्भजे ॥४॥
नित्यानन्दमयं गुरुम्परविभुं निर्विघ्नसन्धायकं
सर्वातीतमनन्तरूपमखिलं सर्वामयघ्नं हरिम् ।
सर्वज्ञञ्च महामहं परतमं सर्वात्मकं शान्तिदं
अन्तर्ज्योतिमजादि दुर्लभतरं रामम्भजे भार्गवम्॥५॥
ओङ्कारात्मकमव्ययं शरधिशं पाथोधिगर्वापहं
गोभूदेवकुलार्तिनाशनकरं गोपालसद्देशिकम् ।
विष्वक्सेनमुदारचित्तमनघं विश्वेश्वरं सम्पदां
दातारं मुनिवन्दिताङ्घ्रियुगळं रामम्भजे च्यावनिम्॥६॥
गोभूदेवमयं धनुःश्रुतिमयं सौजन्यधारामयं
निस्साहाय्यमयं निरामयमयं निस्तुल्ववाणीमयम् ।
सत्सौशील्यमयं पराक्रममयं कालस्य मृत्युर्मयं
भक्तारिघ्नमयं परात्परमयं रामम्भजे भार्गवम् ॥७॥
भूमैश्वर्यसुनिर्जरामरमयं क्षीराब्धिविष्णुर्मयं
अंहार्तिघ्नमयं महौरवमयं मृत्योः प्रमृत्युर्मयम् ।
सङ्ग्रामेषु महाभयानकमयं शान्तिर्मयं सर्वदा
साध्वी रेणुकसत्तपःफलमयं ध्यायामि श्रीच्यावनिम् ॥८॥
रामं सत्यपराक्रमं श्रुतिहितं राजीवपत्राक्षकं
रौद्रं धर्मभृताङ्गुरुं कलुषहं श्रेष्ठं ऋषीणाङ्कुले ।
आयुर्दायकमाश्रितामरतरुं अत्यद्भुतोहाप्रदं
भूभाराघनिबर्हणागतहरिं ध्यायामि यर्चीकजम् ॥९॥
सत्सौभाग्यमयं महाशुचिमयं सम्पूर्णमेधामयं
ब्रह्मानन्दमयं रिपुन्दममयं वात्सल्यधारामयम् ।
ब्रह्मज्ञानमयं महागुरुमयं वाणीमयं सर्वदा
भक्तव्रातसुचातकाम्बुदमयं वन्दे सदा रैणुकम् ॥१०॥
यस्यापीच्यसुविग्रहं कलुषहं द्रष्टुं महापण्डिताः
यस्यानुग्रहमाप्तुमब्जजहरौ मौनीश्वरास्तेपिरे ।
तस्सार्चीकसुतस्य सान्द्रकरुणासारः प्रवाहो महत्
मे रामस्य निरन्तरं प्रवहतु प्रच्छन्न रूपोज्ज्वलः ॥११॥
यद्दृष्ट्या महनीयकान्तिकलितं देहम्महाकानने
लेभाते हरिणौ स्वपूर्वजननप्रज्ञाञ्च मोक्षम्महत् ।
तम्माहात्म्यनिधिं ऋचीकजभवं रामं सदाभक्तव-
ज्रप्राकारमनन्तकं दशरथं वन्दे सदा रैणुकम् ॥१२॥
आदौ रेणुकगर्भवार्धिजननं अम्बागलच्छेदनं
महिष्मत्यधिनाथकण्ठदलनं दुःक्षत्रियोत्सादनम् ।
निर्माणञ्च समन्तपञ्चकमहो सर्वांसहापालनं
एतद्भार्गवरामभूमचरितं त्रैलोक्यमोदावहम् ॥१३॥
॥ इति श्रीपूसपाटि रङ्गनायकामात्यभार्गवर्षिकृतं परशुराम स्तोत्रं सम्पूर्णम् ॥
परशुराम स्तोत्र
कराभ्यां परशुं चापं दधानं रेणुकात्मजम् ।
जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकम् ॥१॥
नमामि भार्गवं रामं रेणुकाचित्तनन्दनम् ।
मोचिताम्बार्तिमुत्पातनाशनं क्षत्रनाशनम् ॥२॥
भयार्तस्वजनत्राणतत्परं धर्मतत्परम् ।
गतगर्वप्रियं शूरंं जमदग्निसुतं मतम् ॥३॥
वशीकृतमहादेवं दृप्तभूपकुलान्तकम् ।
तेजस्विनं कार्तवीर्यनाशनं भवनाशनम् ॥४॥
परशुं दक्षिणे हस्ते वामे च दधतं धनुः ।
रम्यं भृगुकुलोत्तंसं घनश्यामं मनोहरम् ॥५॥
शुद्धं बुद्धं महाप्रज्ञामण्डितं रणपण्डितम् ।
रामं श्रीदत्तकरुणाभाजनं विप्ररञ्जनम् ॥६॥
मार्गणाशोषिताब्ध्यंशं पावनं चिरजीवनम् ।
य एतानि जपेद्रामनामानि स कृती भवेत् ॥७॥
॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीपरशुरामस्तोत्रं सम्पूर्णम् ॥
परशुराम अष्टाविंशति नाम स्तोत्र
ऋषिरुवाच
यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् ।
त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् ॥१॥
दुष्टं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत् ।
तस्य नामानि पुण्यानि वच्मि ते पुरुषर्षभ ॥२॥
भूभारहरणार्थाय मायामानुषविग्रहः ।
जनार्दनांशसम्भूतः स्थित्युत्पत्त्यप्ययेश्वरः ॥३॥
भार्गवो जामदग्न्यश्च पित्राज्ञापरिपालकः ।
मातृप्राणप्रदो धीमान् क्षत्रियान्तकरः प्रभुः ॥४॥
रामः परशुहस्तश्च कार्तवीर्यमदापहः ।
रेणुकादुःखशोकघ्नो विशोकः शोकनाशनः ॥५॥
नवीननीरदश्यामो रक्तोत्पलविलोचनः ।
घोरो दण्डधरो धीरो ब्रह्मण्यो ब्राह्मणप्रियः ॥६॥
तपोधनो महेन्द्रादौ न्यस्तदण्डः प्रशान्तधीः ।
उपगीयमानचरितः सिद्धगन्धर्वचारणैः ॥७॥
जन्ममृत्युजराव्याधिदुःखशोकभयातिगः ।
इत्यष्टाविंशतिर्नाम्नामुक्ता स्तोत्रात्मिका शुभा ॥८॥
अनया प्रीयतां देवो जामदग्न्यो महेश्वरः ।
नेदं स्तोत्रमशान्ताय नादान्तायातपस्विने ॥९॥
नावेदविदुषे वाच्यमशिष्याय खलाय च ।
नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥१०॥
इदं प्रियाय पुत्राय शिष्यायानुगताय च ।
रहस्यधर्मो वक्तव्यो नान्यस्मै तु कदाचन ॥११॥
॥ इति परशुरामाष्टाविंशतिनामस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।