शनि कवच
विनियोग : अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य कश्यप ऋषिः, अनुष्टुप् छन्द, शनैश्चरो देवता, शीं शक्तिः, शूं कीलकम्, शनैश्चरप्रीत्यर्थं जपे विनियोगः II
॥ ध्यानम् ॥
नीलांबरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् I
चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद्वरदः प्रशान्तः II१ II
II ब्रह्मोवाच II
शृणुष्वमृषयः सर्वे शनिपीडाहरं महत् I
कवचं शनिराजस्य सौरेरिदमनुत्तमम् II२ II
कवचं देवतावासं वज्रपंजरसंज्ञकम् I
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् II३ II
ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनंदनः I
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः II४ II
नासां वैवस्वतः पातु मुखं मे भास्करः सदा I
स्निग्धकंठश्च मे कंठं भुजौ पातु महाभुजः II५ II
स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः I
वक्षः पातु यमभ्राता कुक्षिं पात्वसितत्सथा II६ II
नाभिं ग्रहपतिः पातु मंदः पातु कटिं तथा I
ऊरू ममांतकः पातु यमो जानुयुगं तथा II७ II
पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः I
अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे सूर्यनंदनः II८ II
इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः I
न तस्य जायते पीडा प्रीतो भवति सूर्यजः II९ II
व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोऽपि वा I
कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः II१० II
अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे I
कवचं पठतो नित्यं न पीडा जायते क्वचित् II११ II
इत्येतत्कवचं दिव्यं सौरेर्यनिर्मितं पुरा I
द्वादशाष्टमजन्मस्थदोषान्नाशायते सदा I
जन्मलग्नास्थितान्दोषान्सर्वान्नाशयते प्रभुः II१२ II
II इति श्रीब्रह्मांडपुराणे ब्रह्मनारदसंवादे शनैश्चरकवचं संपूर्णं II
दशरथकृत शनि स्तोत्र
नमः कृष्णाय नीलाय शितिकण्ठनिभाय च।
नमः कालाग्निरूपाय कृतान्ताय च वै नमः ॥१॥
नमो निर्मांस देहाय दीर्घश्मश्रुजटाय च ।
नमो विशालनेत्राय शुष्कोदर भयाकृते॥२॥
नमः पुष्कलगात्रय स्थूलरोम्णेऽथ वै नमः।
नमो दीर्घायशुष्काय कालदष्ट्र नमोऽस्तुते॥३॥
नमस्ते कोटराक्षाय दुःखर्नरीक्ष्याय वै नमः ।
नमो घोराय रौद्राय भीषणाय कपालिने॥४॥
नमस्ते सर्वभक्षाय वलीमुखाय नमोऽस्तुते।
सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदाय च ॥5॥
अधोदृष्टे: नमस्तेऽस्तु संवर्तक नमोऽस्तुते।
नमो मन्दगते तुभ्यं निरिस्त्रणाय नमोऽस्तुते ॥६॥
तपसा दग्धदेहाय नित्यं योगरताय च ।
नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः ॥७॥
ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मज सूनवे ।
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥८॥
देवासुरमनुष्याश्च सिद्ध विद्याधरोरगाः ।
त्वया विलोकिताः सर्वे नाशंयान्ति समूलतः॥९॥
प्रसादं कुरु मे देव वाराहोऽहमुपागत ।
एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबलः ॥१०॥
॥ शनि दशनाम स्तोत्रं ॥
कोणस्थः पिंगलौ बभ्रुः कृष्णो रौद्रान्तको यमः
सौरिः शनैश्चरो मंदः पिप्पलादेन संस्तुतः।
एतानि दशनामनि प्रातरुत्थाय यः पठेत
शनैश्चर कृतः पीड़ा न कदाचित भविष्यति॥
॥ शनैश्चर द्वादशनाम स्तोत्रं ॥
शनैश्चर स्वधाकारी छायाभूः सूर्यनंदनः।
मार्तण्डजो यमः सौरिः पंगूश्च ग्रहनायकः ॥
ब्रह्मण्योऽक्रूरधर्मज्ञो नीलवर्णोऽञ्जनद्युतिः।
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ॥
तस्य पीडां न चैवाहं करिष्यामि न संशयः।
गोचरे जन्मलग्ने च वापस्वंतर्दशासु च ॥
॥इति श्री शनैश्चर द्वादश नाम स्तोत्रं ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।