आठ अंक का अध्यात्म में विशेष महत्व है। कमल में अष्टदल होते हैं और कमल सभी देवताओं का प्रिय पुष्प है। यदि आसन हेतु विचार करें तो जहां विशेष मंडल है उसमें भी और न हो तो भी अष्टदल निर्माण किया जाता है। माला में 100 मनके नहीं 8 मनके अधिक लगाये जाते हैं। प्रणाम करने में अष्टांग प्रणाम का विशेष महत्व होता है और उसे साष्टांग प्रणाम कहा जाता है। इस प्रकार हम देखते हैं कि अष्ट (आठ) अंक विशेष महत्वपूर्ण है। स्तोत्रों में भी अष्टक का विशेष महत्व होता है। यहां भगवान सूर्य के चार अष्टक अर्थात सूर्याष्टक स्तोत्र दिये गये हैं।
यहां है एक नहीं चार-चार सूर्याष्टक स्तोत्र – 4 suryashtak stotra
सर्वप्रथम साम्ब कृत सूर्याष्टक स्तोत्र (आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर) दिया गया है जो सर्वाधिक प्रसिद्ध है और प्रयोग भी किया जाता है। तत्पश्चात पण्डितरघुनाथशर्मा विरचित श्रीसूर्याष्टक दूसरे क्रम पर है और तीसरे क्रम पर अनन्तानन्दसरस्वतीविरचित श्रीसूर्याष्टक दिया गया है। पुनः चतुर्थ क्रम पर गायत्रीस्वरूप ब्रह्मचारीविरचित श्रीसूर्याष्टक दिया गया है। इसके साथ ही अंत में भास्कराष्टक नामक स्तोत्र भी दिया गया है।
सूर्याष्टक 1 – साम्ब कृत सूर्याष्टक स्तोत्र (आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर)
साम्ब उवाच
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ॥१॥
सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् । श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥
लोहितं रथमारूढं सर्वलोकपितामहम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥
त्रैगुण्यं च महाशूरं ब्रह्माविष्णुमहेश्वरम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥
बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च । प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥
बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम् । एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥
तं सूर्यं जगत्कर्तारं महातेजःप्रदीपनम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥
सूर्याष्टकं पठेन्नित्यं ग्रहपीडाप्रणाशनम् । अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् ॥९॥
आमिशं मधुपानं च यः करोति रवेर्दिने । सप्तजन्म भवेद्रोगी प्रतिजन्म दरिद्रता ॥१०॥
स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने । न व्याधिः शोकदारिद्र्यं सूर्यलोकं स गच्छति ॥११॥
॥ इति श्रीसूर्याष्टकस्तोत्रं सम्पूर्णम् ॥
सूर्याष्टक 2 – श्रीपण्डितरघुनाथशर्मणा विरचितं श्रीसूर्याष्टकं
प्रभाते यस्मिन्नभ्युदितसमये कर्मसु नृणां
प्रवर्तेद्वै चेतो गतिरपि च शीतापहरणम् ।
गतो मैत्र्यं पृथ्वीसुरकुलपतेर्यश्च तमहं
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥१॥
त्रिनेत्रोऽप्यञ्जल्या सुरमुकुटसंवृष्टचरणे
बलिं नीत्वा नित्यं स्तुतिमुदितकालास्तसमये ।
निधानं यस्यायं कुरुत इति धाम्नामधिपति
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥२॥
मृगाङ्के मूर्तित्वं ह्यमरगण भर्ताकृत इति
नृणां वर्त्मात्मात्मोक्षिणितविदुषां यश्च यजताम् ।
क्रतुर्लोकानां यो लयभरभवेषुप्रभुरयं
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥३॥
दिशः खं कालो भूरुदधिरचलं चाक्षुषमिदं
विभागो येनायं निखिलमहसा दीपयति तान् ।
स्वयं शुद्धं संविन्निरतिशयमानन्दमजरं
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥४॥
वृषात्पञ्चस्वेत्यौढयति दिनमानन्दगमनस्-
तथा वृद्धिं रात्रैः प्रकटयति कीटाज्जवगतिः ।
तुले मेषे यातो रचयति समानं दिननिशं
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ५॥
वहन्ते यं ह्यश्वा अरुणविनि युक्ताः प्रमुदितास्-
त्रयीरूपं साक्षाद्दधति च रथं मुक्तिसदनम् ।
नजीवानां यं वै विषयति मनो वागवसरो
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥६॥
तथा ब्रह्मा नित्यं मुनिजनयुता यस्य पुरतश्-
चलन्ते नृत्यन्तोऽयुतमुत रसेनानुगुणितम् ।
निबध्नन्ती नागा रथमपि च नागायुतबला
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥७॥
प्रभाते ब्रह्माणं शिवतनुभृतं मध्यदिवसे
तथा सायं विष्णुं जगति हितकारी सुखकरम् ।
सदा तेजोराशिं त्रिविवमथ पापौघशमनं
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥८॥
मतं शास्त्राणां यत्तदनु रघुनाथेन रचितं
शुभं चुंराग्रामे तिमिरहरसूर्याष्टकमिदम् ।
त्रिसन्ध्यायां नित्यं पठति मनुजोऽनन्यगतिमांश्-
चतुर्वर्गप्राप्तौ प्रभवति सदा तस्य विजयम् ॥९॥
नन्देन्द्वङ्क्क्षितावब्दे (१९१९) मार्गमासे शुभे दले । सूर्याष्टकमिदं प्रोक्तं दशम्यां रविवासरे ॥१०॥
॥ इति श्रीपण्डितरघुनाथशर्मणा विरचितं श्रीसूर्याष्टकं सम्पूर्णम् ॥
सूर्याष्टक 3 – अनन्तानन्दसरस्वतीविरचित श्रीसूर्याष्टक
यस्योदयेनाब्जवनं प्रसन्नं प्रीतो भवत्याशु रथाङ्गवर्गः ।
गावो मृगास्सम्मुदिताश्चरन्ति मार्तण्डमाकाशमणिं तमीडे ॥१॥
आशाः समस्ता मुदिता भवन्ति गाढं तमो द्यौर्विजहाति विष्वक् ।
ग्राम्या जनाः कर्मणि संप्रवृत्ताः मार्त्तण्डमाकाशमणिं तमीडे ॥२॥
स्वाहास्वधाकारर्रवं द्विजेन्द्राः कुर्वन्ति कुत्रापि च वेदपाठम् ।
पान्था मुदा सर्वदिशो व्रजन्ति मार्त्तण्डमाकाशमणिं तमीडे ॥३॥
देवालये क्वापि नराश्च नार्यः पुष्पादिभिर्देववरं यजन्ति ।
गायन्ति नृत्यन्ति नमन्ति भक्त्या मार्त्तण्डमाकाशमणिं तमीडे ॥४॥
छात्राः सतीर्थ्यैरथवा वयस्यैः सार्धं हसन्तो निकटं गुरूणाम् ।
गच्छन्ति विद्याध्ययनाय शीघ्रं मार्त्तण्डमाकाशमणिं तमीडे ॥५॥
शीतार्तदेहा मनुजाः प्रसन्नाः कुर्वन्ति कार्याणि समीहितानि ।
विद्यां यथा प्राप्य विदः प्रभग्ना मार्त्ताण्डमाकाशमणिं तमीडे ॥६॥
येनैहिकामुष्मिक कार्यजातं देवादिसन्तोषकरं विभाति ।
योऽसौ विवस्वान् सकलार्थदाता मार्त्ताण्डमाकाशमणिं तमीडे ॥७॥
ब्रह्मेश-हर्यादि-समस्तदवाः श्रुता हि नो चाक्षुषगोचरास्ते ।
साक्षादसौ दृष्टिपुरागतो यो मार्त्ताण्डमाकाशमणिं तमीडे ॥८॥
सूर्याष्टकमिदं पुण्यं ध्यात्वा सूर्यं पठेद्यदि । रोगाः सर्वे विनश्यन्ति नूनं सूर्यप्रसादतः ॥९॥
॥ इति श्रीमदनन्तानन्दसरस्वतीविरचितं श्रीसूर्याष्टकं सम्पूर्णम् ॥
सूर्याष्टक 4 – गायत्रीस्वरूप ब्रह्मचारीविरचितं श्रीसूर्याष्टकं
जगन्नाथमेकं जगत्प्राणरूपं जगत्कारणं सर्वदा रक्षकं च ।
जगत्स्वामिनं व्यापकं ह्येकमात्रं स्वयं ज्योतिरूपं च सूर्यं नमामि ॥१॥
जगन्नायकं विश्ववन्द्यं वरेण्यं जगत्स्वामिनं सूर्यमूर्तिं सुपूज्यम् ।
जगच्चक्षुरूपं प्रकाशं ह्यनन्तं स्वयं ज्योतिरूपं च सूर्यं नमामि ॥२॥
सदा ह्येकचक्रं प्रभं देवदेवं प्रदीपं महातेजरूपं च शुभ्रम् ।
सदैवं प्रभुं वेदवेदान्त वेद्यं स्वयं ज्योतिरूपं च सूर्यं नमामि ॥३॥
सदा सच्चिदानन्दमेकं परेशं सदा नेत्रयोः विद्यमान स्वरूपम् ।
सदा मण्डले ब्रह्मरूपं वरेण्यं स्वयं ज्योतिरूपं च सूर्यं नमामि ॥४॥
निजं निर्गुणं तत्त्वमस्यादि लक्ष्यं सदा निर्मलं सत्यमानन्दमेकम् ।
सदाऽद्यन्तशून्यं च तेजो ह्यखण्डं स्वयं ज्योतिरूपं च सूर्यं नमामि ॥५॥
यं रूपकं वेदविदो स्मरन्ति गच्छन्ति यन्मण्डलं तत्त्ववन्तः ।
गायन्ति यं रूपकं सामवेदाः स्वयं ज्योतिरूपं च सूर्यं नमामि ॥६॥
चतुर्बाहुकं कुण्डलं रत्न युक्तं किरीटं तथा रक्तवस्त्रं च सौम्यम् ।
सदा वालखिल्यादिभिः स्तुत्यरूपं स्वयं ज्योतिरूपं च सूर्यं नमामि ॥७॥
जगत्सर्जको ब्रह्मरूपस्त्वमेव जगत् पालको विष्णुरूपस्त्वमेव ।
जगन्नाशको रुद्ररूपस्त्वमेव स्वयं ज्योतिरूपं च सूर्यं नमामि ॥८॥
समर्पयामि सूर्याय सूर्याष्टकमिदं स्तवम् । तव दर्शनमिच्छामि प्रसन्नो भव सर्वदा ॥९॥
॥ इति गायत्रीस्वरूप ब्रह्मचारीविरचितं श्रीसूर्याष्टकं सम्पूर्णम् ॥
भास्कराष्टक
श्रीपद्मिनीशमरुणोज्ज्वलकान्तिमन्तं मौनीन्द्रवृन्दसुरवन्दितपादपद्मम् ।
नीरेजसम्भवमुकुन्दशिवस्वरूपं श्रीभास्करं भुवनबान्धवमाश्रयामि ॥१॥
मार्ताण्डमीशमखिलात्मकमंशुमन्तं आनन्दरूपमणिमादिकसिद्धिदं च ।
आद्यन्तमध्यरहितं च शिवप्रदं त्वां श्रीभास्करं नतजनाश्रयमाश्रयामि ॥२॥
सप्ताश्वमभ्रमणिमाश्रितपारिजातं जाम्बूनदाभमतिनिर्मलदृष्टिदं च ।
दिव्याम्बराभरणभूषितचारुमूर्तिं श्रीभास्करं ग्रहगणाधिपमाश्रयामि ॥३॥
पापार्तिरोगभयदुःखहरं शरण्यं संसारगाढतमसागरतारकं च ।
हंसात्मकं निगमवेद्यमहस्करं त्वां श्रीभास्करं कमलबान्धवमाश्रयामि ॥४॥
प्रत्यक्षदैवमचलात्मकमच्युतं च भक्तप्रियं सकलसाक्षिणमप्रमेयम् ।
सर्वात्मकं सकललोकहरं प्रसन्नं श्रीभास्करं जगदधीश्वरमाश्रयामि ॥५॥
ज्योतिस्वरूपमघसञ्चयनाशकं च तापत्रयान्तकमनन्तसुखप्रदं च ।
कालात्मकं ग्रहगणेन सुसेवितं च श्रीभास्करं भुवनरक्षकमाश्रयामि ॥६॥
सृष्टिस्थितिप्रलयकारणमीश्वरं च दृष्टिप्रदं परमतुष्टिदमाश्रितानाम् ।
इष्टार्थदं सकलकष्टनिवारकं च श्रीभास्करं मृगपतीश्वरमाश्रयामि ॥७॥
आदित्यमार्तजनरक्षकमव्ययं च छायाधवं कनकरेतसमग्निगर्भम् ।
सूर्यं कृपालुमखिलाश्रयमादिदेवं लक्ष्मीनृसिंहकविपालकमाश्रयामि ॥८॥
फलश्रुतिः
श्रीभास्कराष्टकमिदं परमं पवित्रं यत्र श्रुतं च पठितं सततं स्मृतं च ।
तत्र स्थिराणि कमलाप्तकृपाविलासै र्दीर्घायुरर्थबलवीर्यसुतादिकानि ॥
॥ इति श्रीभास्कराष्टकं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।